पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
द्वितीयोsङ्कः।

गोत्रानुकूलेभ्यो राजकुलेम्यः कन्याप्रदानं प्रति दूतसम्प्रेषणा वर्तते । न च महासेनः कञ्चिदपि प्रस्याचष्टे, न चाप्यनुगृह्णीते । किङखल्विदमिति ।

 राजा–बादरायण ! एवमेतत् । अतिलोभाद् वरगुणानामतिस्नेहाच्च वासवदत्तायां न शक्नोमि निश्चयं गन्तुम् ।

 कुलं तावच्छ्लाघ्यं प्रथममभेिङ्क्षे हि मनसा
 ततः सानुक्रोशं मृदुगुपि गुणो ह्येष बलवान् ।
ततो रूपे कान्तिं न खलु गुणतः स्त्रीजनभयात्
 ततो वीर्येदग्रं न हि न परिपाल्या युवतयः ॥ ४ ॥

 काञ्चुकीयः--महासेनं वर्जयित्वा न हीदानीमेते गुणाः कचिदेकस्था दृश्यन्ते ।


 बादरायणेत्यादि । एतद् एवं , त्वदुक्तं तथ्यम् । निश्चयं गन्तुं वरनिर्णयं प्रातुम् ।

 वासवदत्तातिस्नेहमूलकं वरगुणातिलोमं विवृणोति-- कुळामिति । हि तयाहि । प्रथमम् आदौ। क्ष्लाघ्यं क्ष्लाघईम् । कुलं तावत् , मनसा अभिनिविष्टेन चेतसा । अभिकाइक्षे वाञ्छामि । अर्थाद् वरस्य । ततः अनन्तरम् । सानुक्रोशम् अनुक्रोशः कृपा तघुक्तम् । अभिकाइक्षे, अथोद् वरम् । अनुक्रोशं स्तौति-एष गुणः अनुक्रोशाख्पः । मृदुरपि सुकुमारोऽपि । बळवान् हि सरवान् हि । ततः, रूपे आकृतौ। अर्थाढ् वरस्य । कान्ति कामनीयकम् । न खलु गुणतः अभिकाइक्षे, न केवलं गुणत्वाद् वाञ्छामि, किन्तु स्त्रीजनभयाद आभिकाङ्क्षे, स्त्रीजनः कान्तिहीनात् कदाचिद् विरज्येदिति शङ्कावशादपि वाञ्छमीत्यर्थः । ततः, वीर्योदग्र वीर्योन्नतम् । अभिकाइक्षे, अर्थाद् वरमेव । तत्र कारणमाह —हि यतः , युवतयः तरुण्यः । न न परिपाल्याः रक्षणीया एव । रक्षणं च वीर्येणैव निर्वाह्याभित्याभिप्रायः । इह प्रथमतृतीययोः पादयोर्वरगतघर्मविशेषस्याभिकाङ्क्षणक्रियां प्रति क्रर्मत्वंद्वितीयचतुर्थयोस्तु धर्मविशेषवतो वरस्य कर्मत्वमिति वैलक्षण्यमस्ति । यदि पुनर्निर्देशे भावप्राधयात् सानुक्रोशवीर्योदग्रपदयोः सानुक्रोशत्ववीर्योदग्रत्स्वार्थताश्रीयते , तर्हि वरघर्मस्यैव सर्वत्र कर्मत्वमैकरूप्येणेति बोद्धव्यम् । इह परस्मैपदिनः काङ्क्षतेरारमनेपदकरणमार्षम् ॥ ४ ॥

 महासेत्तमित्यादि । काचिद् एक्रस्मिन् पुरुषे । एकस्थाः एकव्यक्त्तिस्थाः॥