पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 राजा- अतः खलु चिन्त्यते ।

कन्याया वरसम्पत्तिः पितुः (प्रायः ) प्रयरनतः ।
भाग्येषु शेषमायत्तं दृप्रपूर्वं न चान्यथा ॥५॥

दुहितुः प्रदानकाले दुःखशीळा हि मातरः । तस्माद् देवी तावदाहूयताम् ।

 काञ्चुकीयः-यदाज्ञापयति महासेनः । (निष्कर्षन्तः ।)

 राजा--भोः । काशिराजदूतसम्प्रेषणेन वत्सराजगृहणार्थं गतं शालङ्कायनं प्रति गता मे बुद्धिः । किन्नुखल्वघापि वृत्तान्तं न प्रेषयति स ब्राह्नाणः ।

कामं या तस्य सा लीळा तत्रैवानुगतं मनः ।
ये त्वस्य सचिवाः सर्वे यत्नमास्थाय ते स्थिताः ॥ ६॥


 अत इत्यादि । चिन्त्यते विमृश्यते ., न तु वरो निक्ष्चीयते ।

 कन्याया इति । प्रायः बाहुल्येन । कन्यायाःवरसम्पात्तिः गुणवद्वरसिद्धिः । पितुः प्रयत्नतः , भवतीति शेषः । प्रयत्नेनेति क्कापि पाठः । शेषं वरसम्पत्त्यतिरिक्तम् ऐहिकभोग्यभेगादिकम् । भाग्येषु आयत्तं भाग्याधीनम् । इष्टपूवे लाके दृष्टचरम् । अन्यथा न च, प्रकारान्तरेण पितृप्रयत्नसाध्यत्वादिना नैव इष्टचरमित्यर्थः । अथवा दृष्टपूर्वे न चान्यथेयस्यायमर्थः -इदमीदृशमिति पूर्वे विमृश्य कृतं कार्ये न विपर्यस्यतीति । इह द्वितीयः पादो मातृकासु विलुप्तमध्यमपदः पठ्यते । अतस्तत् प्रक्षिप्तम् ॥ ५ ॥

 दुहितुरित्यादि । दुःखशीलः कृच्छ्रानुवर्त्यभावाः । आहूयताम्, अर्थात् प्रदानसंबद्धकार्यसम्मन्त्रणार्थम् ॥

 यदित्यादि ॥

 भो इत्यदि । काशिराजदूतसंप्रेषणस्य वत्सराजग्रहणव्यापृतशालङ्कायनस्मरणं प्रति कारणत्वं वदन् दूतोद्दिष्टं कार्ये वासवदत्ताप्रदानरूपे वत्सराजविषयां वरत्वेनाशंसां स्वहृदये निळीय स्थितां सूचयति । वृत्तान्तं वत्सराजो गृहीत उत न गृहीतं इति वार्ताम् ।

 काममिति । या, सा प्रसिद्धा । तस्य वत्सराजस्य । लीला गजमृगयारूपा क्रीडा । तत्रैव तस्यामेव । मनः वत्सराजट्टदयम् । कामम् अनुगतं यद्यप्यासक्त्तम् । अतस्तस्य गजमृगयालीलाप्रसक्त्यास्मदीयगजज्छद्मवागुशपतनं सम्भावितमेवेत्या-