पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
प्रथमोऽङ्कः ।

 प्रतीहारी -(क) अय्य ! तह । (निष्क्रान्ता।)

(प्रविश्य)

 निर्मुण्डकः—(ख) अय्य ! अच्छरिअं णिव्वुतं । भट्टिणो सन्तिणिमित्तं उवद्विअभोअणं बह्मणजयं पेक्खिअ केण वि किळ उम्मत्तधेसधारिणा बह्मणेण उच्चं हसिअ उत्तं-सेरं सेरं अह्णन्तु भवन्तो , अब्भुदअं खु इमस्स राअउळस्स भविस्सदि (ति । तदो वअणसमआकं एब्व अदंसणं गदो ।


 (क) आर्य । तथा ।

 (ख) आर्य ! आश्चर्यं निर्वृत्तम् । भर्तु: शान्तिनिमित्तमुपस्थितभोजनं ब्राह्मणजनं प्रेक्ष्य केनापि किलोन्मत्तवेषधारिणा ब्राह्मणेनोञ्च हसित्वोक्तं-स्वैरं स्वैरमक्ष्नन्तु भवन्तः, अम्युदयः खल्वस्य राजकुलस्य भविष्यतीति । ततो वचनसमकालमेवादर्शनं गतः ।


चन्द्रोपमया द्योत्यते । कस्तर्हि मोचयिष्यतीत्याकाङ्कयामात्मन एव मोचयितृत्वं मोचनव्यतिरेके शपथकरणभङ्गया प्रतिजानीते-राजानं, न मोचयामि यद्यर्थकाक्का न मोचयामि चेदित्यर्थः । तर्हि यौगन्धरायणो नास्मि यौगन्धरायणसंज्ञो न भवाभि, प्रज्ञाशौर्यधैर्यादिगुणसम्पद्विभृतां यौगन्धरायणसंज्ञां त्यजामीत्यभिप्रायः । अथवा यौगन्धरायणो नास्मि यौगन्धरायणनामाहमभावं गच्छामीत्यर्थः । इह माविनोऽपि भोचनस्य वर्तमानत्वविवक्षणमचिरभावित्वद्योतनार्थम् । ‘यदि शत्रुबलग्रस्तं राहुणा चन्द्रमिव’ इतेि क्वचिदर्थ पठ्यते । तत्र लेखकप्रमादच्युतं ‘तमिति पदं प्रक्षिप्य ‘राहुणे’ति पदं चान्तिमं कृत्वा ‘तं चन्द्रमिव राहुणा' इत्येवं पाठः शुद्धः कर्तव्यः । अथेस्तु तदा विस्पष्टतमः ॥ १६ ॥

 अय्येत्यादि । तथा यथार्येणाभिहितं, तथा भर्तृजनन्यै निवेदयामीत्यर्थः ॥

 प्रविश्येति । निर्मुण्डकः कामविज्ञानरहितो राजभृत्यविशेषः । ‘निर्मुण्डा नामतो ज्ञेयाः कामाविज्ञानवर्जिता' इति भरतः । (नाट्यवे० अ० २४)

 अय्येत्यादि । निर्वृत्तं निष्पन्नम् । णिक्ष्वुत्यस्य स्थाने अच्छरिआमिति पुनः पठ्यते कचित् । शान्तिनिमित्तं यान्तिरूपं निमित्तं शान्तिनिमितं दुर्दैवशमनुरूप्राय फलायेत्यर्थः । ‘निभित्तकारणहेतुषु सर्वासां प्रायदर्शनम्’ इति प्रथमा