पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 यौगन्धरायणः-अहोतुखल्वत्रभवस्या राजवंशाश्रितं धीरवाक्यमभिहितम् । अत्रभवत्याः संम्भावनां पूजयामि । विजये ! आपस्तावत् ।

 प्रतीहारी— (क) अय्य ! तह। (निष्क्रम्य प्रविश्य) इमा आवो ।

 यौगन्धरायणः-आनय । (आचम्य) विजये ! किमाह तत्रभवती ।

 प्रतीहारी-–(ख) आणेदु मे पुत्तअं पुत्तओ त्ति ।

 यौगन्धरायणः-हंसक ! किमाह स्वामी ।

 हंसकः--(ग) जोअन्धराअणं पेक्खेहि त्ति।

 यौगन्धरायणः–विजये !

 यदि शत्रुबळग्रस्तो राहुणा चन्द्रमा इव ।

मोचयाभि न राजानं नास्मि यौगन्धरायणः ॥ १६ ॥


 (क) आर्य ! तथा । इमा आपः ।

 (ख) आनयतु मे पुत्रकं पुत्रक इति ।

(ग) यौगन्धरायणं प्रेक्षस्वेति ।


पृच्छयमानत्वे मत्पुत्रवयस्यत्वं मत्पुत्रामात्यत्वं च निमिंत्तं, तथापि मत्पुत्रवयस्यवदेव मया प्राधान्येन गण्यत इत्यभिप्रायेणाह--प्रथममेव मे वत्सस्य वयस्य इति । वयस्यः सखा । एतेन यौगन्धरायणे पुत्रनिर्विशेषं वात्सल्यं द्योतितम् । अत एव पुत्र इति व्यपदेशः । किमिति पृच्छयत इत्याकाङ्कायामाह-आनयत्वित्यादि ।

 अहोत्वित्यादि । अत्रभवत्या, राजवंशाश्रितं राजकुलधारशळितं । धीरवाक्यं सत्त्वयुक्तं वचनम् । सम्भावनां मयि स्वाम्यानयनसामर्थ्याभिमानम् । पूजयाभि, अर्थाद् वक्ष्यमाणप्रतिज्ञया। आपस्तावद् , आनीयन्तामिति शेषः । एतच्च प्रतिज्ञाङ्गशौचार्थम् ॥

 अय्यंत्यादयः पञ्च संवादः ॥

 यदीति । स्यामीति प्रकृतमनुवर्तते ॥ स्वामी, शत्रुबग्रस्तो यदि शत्रुणा बलेन गृहीतक्ष्चेत् । राहुणा चन्द्रमा इव राहुणा ग्रस्तश्चन्द्र इव भवति । अर्थात् सः । योग्यतया प्रस्तपदाध्याहारः । यथा राहुग्रस्तश्चन्द्रो न चिरं प्रासभनुभवति, किन्तु राहुसकाशान्मोचनं क्षिप्रं प्राप्नोति, तथा शत्रुगृहीतः स्वामी न चिरं निरोघदुःखमनुभविष्यति, किन्तु शत्रुसकाशान्मोचनं क्षिप्रं प्राप्स्यतीत्ययमर्थो राहुग्रस्त-