पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 यौगन्धरायणः"अपि सत्यम् ।

(ततः प्रविशति ब्र।ह्मणः)

 ब्राह्मणः—इमेऽत्रभवता परिगृहीता आत्मप्रयोजनोत्सृष्टाः परिच्छदविशेषाः । एभिः प्रच्छादितशरीरो भगवान् द्वैपायनः प्राप्तः ।

 यौगन्धरायणः--एवं, द्वैपायनः प्राप्तः ।

 ब्राह्मणः-बाढम् ।

 यौगन्धरायणः-तेन हि पश्यामस्तावत् ।

 ब्राह्मणः-पश्यतु भवान् ।

 यौगन्धरायणः-कथमन्यद रूपमिव मे संवृत्तम् । हन्त भोः ! गतोऽस्मि स्वामिसन्निकर्षमेव । इदानीं ममोपदेशार्थमिवोत्सृष्टाः ।


उपस्थितभोजनं सन्निहितभोज्यम् अमत्रपरािवष्टभोज्यम् । उन्मत्तवेषधारिण विश्रान्तचित्तस्य वेषं धारयितुं शीलवता । उच्चं हसिवा तारध्वनियुक्तं यथा तथा विहस्य । ‘उच्चं हसिअ' इत्यस्य स्थाने ‘उवहसिअ ’ इति पाठान्तरम् । स्वैरं यथेच्छम् । अश्नन्तु भुञ्जताम् । अस्य राजकुलस्य वत्सराजकुलस्य । अदर्शनम् अन्तर्घानम् । गत इत्येतदुपरि पाठ्यं ’ तेण उम्मत्तो भअओ मविस्सदि ’ इत्यधिकं काचित् पठ्यते । "तेनोन्मत्तो भगवान् भविष्यति ’ इति च तत्संस्कृतम् । तदर्थस्तु स्फुट एव ॥

 अपीत्यादि । त्वया निवेदितं वृत्तं यथार्थे भवत्विति मे काम इत्यर्थः । अपीति कश्चिदर्थे कामप्रवेदने ॥

 इम इत्यादि । इमे मरकरस्थिता: । अत्र भवता उन्मत्तवेषधारिणा ब्राह्मणेन। परिगृहीताः उपयुक्तः । आत्मप्रयोजनोत्सृष्टाः अस्मप्रयोजनेननिर्दूतेन पारित्यक्त्ताः । परिच्छदविशेषाः उपकरणाविशेषः। द्वैपायनः व्यासमहर्षिः ।

 एवमित्यादि ॥

 बाढमिति । बाढं दृढं, द्वैपायनः प्राप्त इति सुनिश्चितमित्यर्थः ॥

 तेन हीत्यादि । पश्यामस्तावत् , अर्थात् परिच्छदविशेषान् ।

 प्रयत्वित्यादि । एतदुतरं ‘इत्यर्पयति’ इति कविवाक्यं लेख्यम् । आनक्षेपलभ्यस्तदर्थ इति वा वक्तव्यम् ॥

 कथमिति । इतः प्राग् ‘गृहीत्वा’ इति कविवाक्थम् अपेक्षितम् । गृहीत्वे-