पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
प्रतिज्ञायौगन्धरायणे सव्याख्याने
सालकः- (क) अय्य ! तह । (निष्क्रान्तः ।)
यौगन्धरायणः—निर्मुण्डक ! प्रवेश्यतां हंसकः।
निर्मुण्डकः —(ख) अय्प ! तह । (निष्क्रान्तः । )
यौगन्धरायणः-स्वामिनाविरहितपूर्वा हंसक एकः प्राप्त इति साअविग्नमिव मे मनः । कुतः,
यथा नरस्या कुलबान्धवस्य गत्वान्यदेशं गृहमागतस्य ।
तथा हि मे सम्प्रति बुद्धिशङ्का श्रोष्यामि किन्नु प्रियमप्रियं वा ॥ ५॥

( ततः प्रविशति हंसको निर्मुण्डकश्च )


(क) आर्य ! तथा ।
(ख) आर्य ! तथा।

अय्येत्यादि ॥
निर्मुण्डकेत्यादि ॥
अय्येत्यादि ॥

 स्वामिनेत्यादि । अविरहितपूर्वः पूर्वमवियुक्तः । एकः स्वाभिना विरहितः । इति स्वामिविरहितहंसकागमनाद्धेतोः। सुशिग्नमिव सावेगमिव । भावे क्तः । इवंशब्दो वाक्यभूषणम् ।

 एकाकिहंसकप्राप्त्या कुतस्तवावेग इत्याकाङ्कायामाह--यथेति । आकुलबान्धवस्य अकुलाः कुटुम्बवार्तानिवेदन प्रत्युसुकाः बान्धवाः यस्य तस्य तथाभूतस्य । अन्यदेशं गत्वा गृहमागतस्य, एतेन कुटुम्बवार्ताश्रवणौसुक्यमुक्तम् । नरस्य पुरुषस्य । यथा, बुद्धिशङ्का बुङमेनसः शङ्का अतिस्नेहनिभितः कुटुम्बवषयः पापवितर्कः ! भवति, तथा, हि यस्मात् कारणात् । मे, सम्प्रति अस्मिन्नेकाकिहंसकप्राप्त्यवसरे । बुद्धिशङ्का अर्थात् स्वामिविपत्तिविषया । जायत इति शेषः । अतः सावित्रमिति पूर्वेण सम्बन्धः । एकाकिहंसकप्राप्तिजनितया बुद्धिशङ्कया ममावेग इति तात्पर्यम् । आविग्नचित्तसदृशं चिन्तयति--प्रियम् इष्टमर्थे। किन्नु श्रेष्यामि, अथवा अप्रियं किन्तु श्रोष्यामि ॥ ५ ॥

तत इत्यादि ॥