एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
प्रथमोऽङ्कः ।
- निर्गुण्डकः -(क) एदु एदु अय्यो।
- हंसकः-(ख) कहिं कहिं अय्यो।
- निर्मुण्डकः—(ग) एसो अय्यो चिट्टइ, उवसप्पदु णं। (निष्क्रान्तः । )
- हंसकः-(उपगम्य) (घ) सुहं अय्यस्स ।
- यौगन्धरायणः--हंसक ! न खलु गतः स्वामी नागवनम् ।
- हंसक-(ङ) अय्थ ! हिज्जो एव्व गदो भट्टा।
- यौगन्धरायणः-हन्त निष्फलमनुप्रेषणम् । छलिताः स्मः । अथास्ति प्रत्याशा, अथवा अघैव ग्राणा मोक्तव्याः।
- हंसकः- (च) धरदि खु दाव भट्टा।
- (क) एत्वेत्वार्यः।
- (ख) कुत्र कुत्रार्थः ।
- (ग) एष आर्यस्तिष्ठति, उपसर्पत्वेनम् ।
- (घ) सुखमार्यस्य ।
- (ङ) आर्य ! ह्य एव गतो भर्ता ।
- (च) धरते खलु तावद् भर्ता ।
- एदु इत्यादि ॥
- कहिमित्यादि । दर्शनत्वरया द्विरुक्तिः ॥
- एसो इत्यादि । एतद्वाक्यान्ते ‘निष्कान्त' इति लेखनीयं, निर्गुण्डक यूनः-
- प्रवेशस्योत्तरत्र कथनात् ॥
- सुहमिस्यादि ॥
- हंसकेस्यादि । न स्खल्विस्यत्र प्रश्नकाकुः ॥
- अय्येत्यादि । यः पूर्वेघुः ॥
स्वाभिनः शत्रुवञ्चितत्वं निश्चित्याह-हन्तेत्यादि । अनुप्रेषणम् अर्थात् सालकस्य । छलिताः वञ्चिताः, प्रद्योतेनेत्यर्थम् । प्रत्याशा छलमतीकारविषया । अथ अस्ति अरितं किम् । अथवा प्राणाः, त्यक्त्तव्याः, अर्थादस्माभिः । किं जीवति स्वामी उत नामशेष इति प्रभकोट्योरभिप्रायः ॥
धरदीति । भर्ता, धरते खलु तावत् जीवत्येव न तु न जीवति । अजीवनशङ्का तु तद्विषये मंमं पूर्वमांसीदित्यभिप्रायः ।