यौगन्धरायणः—विजये ! विज्ञाप्यतां तत्रभवत्यै–सर्ववधूजनहस्तप्रयुक्ता वा एका वा प्रतिसरा दीयतामिति ।
विजया-(क) अय्य ! तह । ( निष्क्रान्ता।)
( प्रविश्य )
निर्मुण्डकः-(ख)सुहं अय्यस्स ।
यौगन्धरायणः--कथं निर्मुण्डक ।
निर्गुण्डकः -–(ग) अय्य ! एस भट्टिपादमूळादो ओवट्ठिइओ हंस ओ आअदो ।
यौगन्धरायणः-कथं हंसक एकः प्राप्त इति । सालक ! विश्रम्यतामिदानीं मुहूर्तम् । त्वरिततरं वा यास्यसि सविभ्रमो वा ।
(क) आर्य ! तथ। ।
(ख) सुखमार्यस्य ।
(ग) आर्य! एष भर्तृपादमूळादैपस्थितिको हंसक आगतः ।
र्ववधूजनहस्ताभिमर्शनमङ्गलविधिः सामुदाचारिकस्वारितमनुष्यते ; तस्मिन् निर्वृत्ते तां प्रेषयामीति । इति एव । भर्तृमाता महाराजजननी । आह ॥
कालहरणभयात् खन्दियति--विजय इत्यादि । एका वा अन्या वा अखर्ववधूजनहस्तप्रयुक्ता वेत्यर्थः । ‘एके मुख्यान्यकेवलाः' इत्यमरः ।
अय्येत्यादि ।
प्रविश्येति । अस्य स्थाने ‘ततः प्रविशति निर्मुण्डकः’ इति क्कचित् पाठः ॥
सुहभिस्यादि । सुइं शुभं सुखं वा । कुशळपक्ष्नोऽयम् ॥
कथामित्यादि ॥
अय्येत्यादि। औपस्थितिकः उपस्थितिं समीपस्थितिं नित्यमर्हतीत्यैपस्थितिकः, अर्याद् भर्तुः । 'तदर्हति’ (५. १. ३३) इति ठञ् ॥
कथमित्यादि । एकः भर्तृविरहितः । इतीत्यनन्तरं ब्रूषे इति शेषः । सुहूर्ते विश्रम्यतां, हंसकमुखात् स्वामवृत्तान्तश्रवणं यावत् प्रस्थातुं विलम्ब्यतामित्यभिप्रायः । त्वारिततरं शीघ्रतरं । त्वरितमिति पाठान्तरम् । यास्यामि वा, सविभ्रमो वा विश्रान्तो भविष्यसि वा । कार्यस्यानतिपातक्ष्रवणे त्वरिततरयानपक्षः , अतिपातश्रवणे तु विश्रमपक्षः ॥