पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 यौगन्धरायणः--नैतदस्ति ।

चिरमरिनगरे निरोधमुक्तः स किल वनान्युपलभ्य भद्रवत्या।
ग्रहणमुपगमिष्यति प्रयातो निमिषितमात्रंगतेषु योजनेषु ॥ १०॥

भद्र ! कथं गृहीत इति श्रुतम् ।

 भट:-(क) अणुसारिअ णळागिरिणा गहीदो किळ।

 यौगन्धरायणः—-अस्ति वाहनसामर्थ्यम् । असमायुक्तस्तु सः ।

गजस्याधोरणायुक्तो जवो भवति शिक्षया।
विमुक्तं वत्सराजेन क एनं वाहयिष्यति ॥ ११ ॥

 (क) अनुसार्य नलागिरिणा गृहीतः किल ।


 नेति । एतद् नास्ति त्वदु क्त्तमसत्यम् ।

 ग्रहणस्यासम्भाव्यतामुपपादयति-चिरमिति । अरिनगरे, चिरं निरोधमुक्त्तः बहुनाडिकाभ्यः प्रागेव अवरोधान्निर्गत इत्यर्थः। भद्रवत्या करणभूतया, वनानि उपलभ्य विन्ध्यारण्यान्यासाद्य। प्रयातः स वत्सराजः । निमिषितमात्रगतेषु योजनेषु निमेषमात्रातीतेषु योजनेषु । अर्थाद् बहुयोजनव्यवहितेषु प्रदेशेषु । ग्रहणम्, उपगमिष्यति किंल, इह नञर्थे काका उपगभिष्यतीत्येतदसम्भावनीयमित्यर्थः, किलशब्दस्य सम्भावनापरत्वात् ॥ १० ॥

 भद्रेत्यादि । कथं केन प्रकारेण ॥

 अणुसारिअ इत्यादि ॥

 अस्तीति । वाहनसमर्थ्ये वाहनस्य नलगिरेः समर्थ्ये भद्रवत्यनुधावनशक्तत्वम्। अस्ति । किन्तु सः वलागिरिः । असमायुक्तः असम्१ग्व्यापारितः , असुष्ठु शिक्षितो वा । अतस्तस्य भद्रवत्यनुधावनमसम्भाव्यमित्याभिप्रायः ।

 गजस्येति । गजस्य, जवः.वेगः । आधोरणायुक्तः आधेरणेन हस्तिपकेन आयुक्तः उत्पादितः । भवति । एवं स्थिते , कः , शिंश्चया विमुक्तं रहितम् । पर्ने नलागिरिं । वत्सराजेन भद्रवतीं वाहयता वत्सराजेन सह । वाहयिष्यति गमयिष्यति न कोऽपि बहयिध्यतीत्यर्थः ॥ ११ ॥