उभौ-(क) उस्सरह उस्सरह अय्या । उस्सरह ।
यौगन्धरायणः-– मद्दर्शनाभिलाषी जनो न कश्चिदुत्सारयितव्यः । पश्यन्तु मां नरपतेः पुरुषाः ससत्त्तवा राजानुरागानियमेन विपद्यमानम् । ये प्रार्थयन्ति च मनोभिरमात्यशब्दं तेषां स्थिरीभवतु नश्यतु वाभिलाषः ॥
उभौ–(ख) उस्सरह उस्सरह । किं तुह्नेहि ण दिट्ठपुरुवो अय्यजोअन्धराअणो ।
यौगन्धरायणः- दृष्टः पूर्व, न त्वेवम् । मम हि,
- उन्मत्तच्छन्नवेषस्य रथ्यासु परिधावतः ।
- अवगीतमिदं रूपं कर्म सम्प्रति दृश्यते ॥ ९ ॥
- उन्मत्तच्छन्नवेषस्य रथ्यासु परिधावतः ।
(प्रविश्य)
भट-(ग) अय्य ! पिअं दे णिवेदेमि । गहीदो किळ वच्छराओ ।
(क) उत्सरतोत्सरतार्याः ! उरसरत ।
(ख) उरसरतोत्सरत । किं युष्माभिर्न दृष्टपूर्व आर्ययौगन्धरायणः ।
(ग) आर्य ! प्रियं ते निवेदयामि । गृहीतः किल वत्सराजः ।
उस्सरहेत्यादि ।
मद्दर्शनेत्यादि ।
पश्यन्त्वित्यादि । समत्त्वाः सधैर्याः राजानुरागनियमेन विपद्यमानं राजभक्तिव्रतेन विपत्तिं प्राप्नुवन्तम् । आभिलाषःस्थिरीभवतु नश्यतु वा । लोकोत्तरकीर्तिलाभगणनायाम् अभिलषस्थिरीभावपक्षः, मदनुभूतमहाक्लेयभीरुतायामाभिलषनाशपश्च इति बोद्धव्यम् ॥ ८ ॥
उस्सरहेत्यादि ॥
दृष्ट इत्यादि ।
मम हि उन्मत्तेति । उन्मत्तच्छन्नवषेस्य उन्मत्तस्वाच्छादितस्वरूपस्य । रथ्यासु प्रतीलीषु । परिधावतः। मम, इदं रूपम् अवगीतं निन्दितं हि। अतस्तद्दर्शनेन तेषां न तृप्तिरित्यभिप्रायः । सम्प्रति मम कर्म दृश्यते, निन्दितरूपदर्शनावृप्तैस्तैर्ममावदातं कर्मेदानीं साक्षात्क्रियते ॥ ९ ॥
अय्येत्यादि । प्रियमित्युपहासवचनं । किलेति वार्तायाम् ॥