पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
तृतीयोऽङ्कः।

 वेदूषकः-(क) इणादो अत्तभवं ।

 योगन्धरायणः -कृतं देवकार्यम् ।

 विदूषकः-(ख) आम भो ! पणाममत्तेण पूइदा देवदा ।

 यौगन्धरायणः - एतामपि बहुमतामवस्थां प्राप्तः स्वामी । कुतः ,

स्त्रतस्य यस्य समुपस्थितदैवतस्य पुण्याहघेषविरमे पटहा नदन्ति ।
तस्यैव कालविभवात् तिथिपूजनेषु दैवप्रणामचलिता निगाः स्वनन्ति ॥ ४ ॥

 रुमण्वान् - भवत इदानीं प्रयत्न उचितं तिथिसत्कारमानेष्यति स्वामिनः ।

 यौगन्धरायणः-वसन्तक ! गच्छ. भूयः स्वामिनं पश्य ; विज्ञाप्य-


 (क) स्नातोऽत्रभवान् ।

 (ख) आम भो ! प्रणाममात्रेण पूजिता देवताः ।


 हणादो इस्यादि ।

 कृतमिति । देवकार्यं कृतं देवतावूजा कृता किम् ॥

 आमेत्यादि । प्रणाममात्रेण नमस्कारेणैव, न तु पुष्पार्चनादिना ।

 एतामिति । बहुमतां विपत्कालेऽपनुवर्त्यमानतया लोक क्ष्कलाघिताम् । एतागपि वक्ष्यमाणगुणमपि । अवस्थां देवपूजनदशां प्राप्तः ।

 स्नातस्येति स्नतस्य , समुपस्थितदैनतस्य स्नानोत्तरकाले पूजितदैवतस्य । यस्य स्वामिनःपुण्याहघोषविरमे पूजाङ्गपुण्याहवाचन कर्मावसाने । पटहा वाद्यविशेषाः । नदन्ति शब्दायन्ते । तस्यैव, तिथिपूजनेषु चतुर्दश्यादितिथिविशेषनि मित्तेषु देवपूजनेषु । कालविभत्रत्व काळशक्त्या । निगलाः पादबद्धाः शृङ्खलाः । दैवप्रणाम चलिताः सन्तः स्वनन्ति ॥ ४ ॥

 भवत इति । भवतः प्रयत्नः , स्वामिन , उचितं पुण्याहवाचनपटहवादनादिमङ्गलघोषानुयातं । तिथिसत्कारं तिथिनिमित्तं देवपूजनम् । इदानीम् आनेष्यति, अविलम्बं प्रतिग्रपयिष्यति । स्वामिनं बन्धनात् क्षिप्रं मोचयित्वेत्यार्थम् । इह इदानीमिति कालासन्त्नवं वदता रुमण्वता यौगन्धरायणनिर्णीतः स्वामिमोचनभ्युपायस्य प्रकारो न केवलं, किन्तु प्रयोगकालोऽप्यवगत इति गम्यते ॥

 अत एव रुमण्वद्धचनादुपजातत्वरः पूर्वसन्देशप्रेषणोत्तरकालनिर्धारितं सन्दिष्ठार्थप्रयोगकालं स्वामिने निवेदयितुं वसन्तकं चोदयति-वसन्क! गच्छेत्यादि ।