पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
प्रतिज्ञायौगन्धरायणे सव्याख्याने

तां च स्वामी - या सा प्रयाणं प्रतीह प्रस्तुता कथा, तस्याः क्ष्चः प्रयोगकाळ इति । कुतः , स्थानावगाहयवसशय्याभागेष्वाश्रयेषूपम्यस्तौषधिध्याजो नलागिरिर्मन्त्रौषधिनियमसम्भृतः पुराणकर्मव्यामोहितः। अनुकूलमारुतमोक्तव्यः सज्जितो धूपः । रोषप्रतिकूलोऽस्य साज्जितः प्रतिगजमदः । शालासन्निकृष्टमल्पसाधनं गृहमादीपयितुमग्निसित्वाद् वारणानाम् । गजपतिचित्तोद्भ्रणार्थं देवकुलेषु स्थापिताः शङ्खदुन्दुभयः। तेन नादेन सर्वसाधनपरिगतशरीरेणावश्यं श्वः प्रद्योतेन स्वामी शरणमुपगन्तव्यः । ततः स्वामिना शत्रोरनुमतेनैव बन्धनान्निष्क्त्रम्य सहव्यापन्नां घोषवतीं हस्तगतां कृत्वा नलागिरिः स्वाधीनः कर्तव्यः । ततो व्यवस्थितासनस्तदानीं स्वामी नलगिरौ ,


भूयः पुनरपि । एतेन, वक्ष्यमाणकार्यशरीरमुद्दिश्य गमनं दर्शनं बिज्ञापनं च वसन्तकेन सकृत् कृतपूर्वमिति प्रकाश्यते । विज्ञाप्यस्याकारमाह-प्रयाणं प्रति कौशास्त्रीप्रस्थानं प्रति । या, स सन्दिष्टपूर्वा । कथा उपायभाषा। इइ भवत्समीपे । प्रस्तुता वसन्तकमुखेन प्रक्रान्ता । तस्याः प्रयोगकाल :, श्वः अनन्तरभावी दिवसः इति । प्रयोगस्य त्वरणे किं कारणमित्याकाङ्क्षापूर्वे तदनुकूलसाधनसम्पत्संविधाः नानां करिष्यमाणत्वेन पूर्वं विज्ञापितानामिदानीं सिद्धत्वमेव कारणमित्याभिप्रायं सूचयंस्तेषां कृतस्वं विवृणोति-स्थानेत्यादिना । स्थानावगाहयवसशय्याभागेषु स्थानभागो यत्र नलागिरिस्तिष्ठति, अवगाहभागो यत्र स्नाति, यवसभागो यत्र तृणादि ग्रसते, शय्याभागो यत्र शेते, तद्रूपेषु आश्रयेषु, उपन्यस्तैषधिव्याज: उपाक्षिप्तौषधिच्छलः। नळागिरि नलगिरिनामा महासेनस्य प्रिय औपवाह्यो गजेन्द्रः । मन्त्रौषधिनियमसंभृतःमन्त्रौषध्योः नियमेन नियतकालप्रयोगेण संभृतः पुष्टः कृतविशेष इत्यर्थः । विशेषणफलमाह--‘पुराणकर्मव्यामोहितः पुराणे अनूतने निये कर्मणि व्यामोहितः सञ्जातेतिकर्तव्यतामौढ्यः। ‘पुराणकर्मणि’ इति क्काचिद् व्यस्त एव पाठः । रोषप्रतिकूलः रोषे सति तद्वृद्धिकरत्वाद् रुष्टं प्रत्यहितः । पिपासाप्रतिकूलं लवणमितिवत् प्रयोगः । शालसन्निकृष्टं गजशालाप्रत्यासन्नम् । अल्पसाधनम् अल्पभोग्यवस्तुकं । भोग्यवत्तुबहुत्वे बहुनायः स्यादित्यत एतदुकं । आदीपयितुं वाहिना प्रज्वलयितुं । सज्जितमितीहापि संबन्धनीयं । वारणानां गजानां । शङ्गदुन्दुभयः शङ्खयुक्ता भेर्यः । उक्तसाधनसम्पदावश्यभाविनीं कार्यपारिपाटीमाहू–सर्वसाध-