पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
प्रतिज्ञायौगन्धरायणे सव्याख्याने

व्यवहारेष्वसाध्यानां लोके वायतिरज्यताम् ।
प्रभाते दृष्टदोषाणां वैरिणां रजनी भयम् ॥ ३ ॥

 यौगन्धरायणः-वसन्तक ! स्वामिना सह कथितं ननु ।

 विदूषकः-(क) आम भो ! चिरं एव्व च ह्नि तत्तहोदा ओवज्झो । अज्ज चउद्दसी इणअमाणो पडिवाळिदो अ ।

 यौगन्धरायणः-- स्नातः स्वामी ।


 (क) आम भोः ! चिरमेव चास्मि तत्रभवतावबद्धः। अद्य चतुदेशीं त्रायमानः प्रतिपालितश्च ।


 व्यवहारेष्विति । व्यवहारेषु असाध्यानां साधयितुं गुणतो निर्णेतुमशक्यानां , छलव्यवहारित्वात् ‘इंइशं ह्टदथमेषामित्यसंप्रधारणीयहृदयानामित्यर्थः एतेन लोकविद्वेषसामग्रसित्तोंक्ता । लोके जने । अप्रतिरज्यतां वा उदासीनवृत्तिस्वीकारत् स्नेहमकुर्वतां च । वाशब्दक्ष्चर्थे । चेत्येव वा पाठः । एतेन मित्रहीनत्वमुक्तम् । प्रभाते दृष्टदोषाणां दिवा कथञ्चित् परविज्ञातचर्याच्छलानाम् । अत एव वैरिणां शत्रूणां स्पष्टीभूतशत्रुभावानां पुंसां । रजनी रात्रिः । भयं प्राणभयहेतुः । छलव्यवहारिणो जनेष्त्रस्निग्घवृत्तथश्च पूरुषाः यदि कदाचिद् दिवा केनचिद् उपलब्धच्छलदोषाः स्युः, तान् स शत्रून् निश्चित्य रात्रावविज्ञातोऽवश्यं हन्यादित्याभिप्रायः ॥ ३ ॥

 स्वामिवृत्तान्तं पृच्छति. -वसन्तकेति । वसन्तक ! स्वामिना सह कथितं ननु, स्वामिसभाषणं ते जातं किम् । मत्सन्देशः स्वामिने निवेदितः किमित्याशयः ।

 आमेत्यादि । अवबद्धः कथयानुबद्धः । एवञ्च दीर्घश्चणळाभाद् भवत्सन्दे शो विस्तरेण स्वामिने निवेदित इत्याशयः । चतुर्दशीं तिथिविशेषं प्रतिपालन क्रिथात्यन्तसंयोगे द्वितीया । स्नायमानः ऐदम्पर्येण स्नायन् । अर्थात् स्वामी। ‘ष्णै शौचे "इत्यस्माच्चानश् । प्रतिपालितश्च मयान्वसनेन प्रतीक्षितश्च ॥

 स्नात इत्यादि । प्रश्नकाकुरत्र । इह स्नाने परं प्रक्ष्नः कृतः । ‘कौशाम्बीप्रयाणोपायं श्रुतवता किमुत्तरं प्रतिपस्त्रं स्वामिना ’ इति तु प्रक्ष्नो न कृतो यौगन्धरायणेन, यतः स्ववशवर्ती स्वामी अङ्गीकारवचनातिरेकेण तत्र न किञ्चिद् विरु द्धमभिधास्यतीति तस्य विस्रम्भः । इति बोद्धव्यम् ।