पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
तृतीयोऽङ्कः ।

 यौगन्धरायणः-वसन्तक ! अपि दृष्टस्त्वया स्वाभी ।

 विदूषकः-(क) आम भो ! दिठ्ठो ततभवं ।

 यौगन्धरायणः-हन्तभोः , अतिक्रान्तयोगक्षेमा रात्रिः। दिवस इदानीं प्रतिपाल्यते ।

 अहः समुत्तीर्थ निशा प्रतीक्ष्यते शुभे प्रभाते दिवसोऽनुचिन्त्यते ।

 अनागतार्थाभ्यशुभानि पश्यतां गतं गतं कालमवेक्ष्य निर्वृतिः ॥ २ ॥

 रुमण्वान्--सम्यग् भवानाह । तुल्येऽपि कालविशेषे निशैव बहुदोषा बन्धनेषु । कुतः,


 (क) आम भोः ! दृष्टस्तत्रभवान् ।


 वसन्तकेत्यादि । त्वया स्वामिदर्शननियुक्तेनेत्यार्थम् । अपि दृष्टः दृष्टः किम् ॥

 आमेत्यादि । तत्र भवान् पूज्यः ॥

 रिपुनगरच्छन्नचर्यानियन्त्रणदशायामस्याममवरतानर्थशङ्कासमूत्थं चेतसोऽस्वास्थ्यमनुभूयमानमनुसन्धायाह -हन्तेति । हन्तभोः कष्टम् । रात्रिः, अतिक्रान्तयोगक्षेमा अतिक्रान्तः अतीतः योगक्षेमः विनानर्थं देहयात्रा यस्यां सा तथाभूता । दिष्टया सम्पन्नेति शेषः । इदानीं , दिवसः, प्रतिपाद्यते सुसम्पन्नयोगक्षेमो भवेन्न वेत्यनुचिन्त्यते ।

 रात्रिदिवसयोरित्थं पर्याथचिन्तनं चक्रवत् परिवर्तत इत्यभिप्रायेणाह--अहरिति । अहः प्रतिपाल्यमानं दिवसं । समुत्तीर्य विनानिष्टं कथमप्यतिवह्य । निश प्रतीक्ष्यते रात्रिः प्रतिपाल्यते । प्रभाते, शुभे, प्रत्यूषे मङ्गले दृष्टे अर्थात् प्रतीक्ष्यमाणायां निशायां शुंभप्रभातायां सत्यां । दिवसः अनुचिन्त्यते अपि विनानिष्टमवस्येदित्यौत्सुक्येन प्रतीक्ष्यते । चिन्तादुःखचकेऽस्मिन् निर्वृतिस्थानं किञ्चिदाह--अनागतार्थानि अनागताय भविष्यत्काथेमानि अर्थाद् भविष्यत्कालसम्बन्धीनि । अशुभानि, पश्यतां चिन्तयताम् अस्माकं । गतं गतं कालम् अवेक्ष्य शुभेनातीतं सर्व कालं स्मृत्वा । निर्वृतिः सुखम् । लब्धव्यमिति शेषः ॥ २ ॥

 सम्यगिति । भवान् , सम्यग् युक्तम् । आह । कालविशेषे कालगते भेदे । तुल्येऽपि निशादिवसयोः समाने सत्यपि । बन्धनेषु नियन्त्रणेषु अर्थादस्मदनुभूयमानजातीयेषु मनोवाक्कायगुप्तिपूर्वकबहुविघच्छळप्रयोगसङ्कटेषु। नियैव, बहुदोषा शङ्कनीयबहनर्या ।