सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कात्यायनसूत्रे- - 9 तीर्थानि भवन्ति अगुष्ठमूले ब्रह्मतीर्थ कनिष्ठिकाङ्गलि- मूले प्रजापतितीर्थ तजन्यङ्गुष्ठमध्यमूले पितृतीर्थमङ्गु- त्यग्रे देवतीर्थ मध्येऽग्नितीर्थमित्येतानि तीर्थानि भवन्ति॥२॥ प्रथमं यत्पिबति तेन ऋग्वेदं प्रीणाति, द्वि- तीयं यत्पिवति। तेन यजुर्वेदं प्रोणाति, तृतीयं यत्पिबति तेन सामवेदं प्रीणाति, चतुर्थ यदि पिबत्ते- नाथर्ववेदेतिहासपुराणानि प्रीणाति, यदङ्गुलिभ्यः सवति तेन नागयक्षकुबेराः सर्वे वेदाः प्राणन्ति, यत्पादाभ्युक्षणं पितरस्तेन प्रीणन्ति, यन्मुखमुपस्पृशत्यग्निस्तेन प्रीणाति, यन्नासिके उपस्पृशति वायुस्तेन प्रीणाति, यत् चक्षुरुपस्पृ- शति सूर्यस्तेन प्रीणाति, यच्छ्रोत्रमुपस्पृशति दिशस्तेन प्री- णन्ति, यन्नाभिमुपस्पृशति ब्रह्मातेन प्रीणाति, यदधृदयमु. पस्पृशति, तेन परमात्मा प्रीणाति, यच्छिर उपस्पृशति रुद्रस्तेन प्रीणाति, यहाहू उपस्पृशति विष्णुस्तेन प्रीणाति, मध्यमानामिकया मुखं तर्जन्यङ्गुष्ठेन नासिकां मध्यमा- ङ्गुष्ठेन चक्षुषो अनामिकाङ्गुष्ठेन श्रोत्रं कनिष्ठिकाङ्गु- प्ठेन नाभिं हस्तेन हृदयं सर्वाङ्गुलिभिः शिर इत्यसौ सर्वदेवमयो ब्राह्मणो देहिनामित्याह इत्येवं शौचविधि कृत्वा ब्रह्मलोके महीयते ब्रह्मलोके महीयते इत्याह , भगवान् कात्यायनः ।।