सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शौचविधिनिरूपणम् । ६९ , -जीझाकी अथ परिशिष्टशौचसूत्रम् | dipin अथातः शौचविधि व्याख्यास्यामो दूरङ्गत्वा दूरतरङ्ग- त्वा यज्ञोपवीत शिरसि दक्षिणकर्णे वा धृत्वा तृणमन्त- निकृत्वोपविश्याहनात्युत्तरतो, निशायान्दक्षिणत, उ- भयोः सन्ध्ययोरुदङ्मुखो नाग्नौ न गोसमीपे नाप्सु, , नागे वृक्षमूले चतुष्पथे गवाङ्गोष्ठे देवब्राह्मणसन्निधौ, दहनभूमि भस्माच्छन्नं देशं फालकृष्टभुमिञ्च वर्जयित्वा मूत्रपुरीषे कुर्या- त् । ततः शिश्नं गृहीत्वोत्थायाद्भिः शौचं गन्धलेपहरं विदध्यात् लिङ्गे देया सकृन्मृदै निवारं गुदे दशधा वा- मपाणावुभयोः सप्तवारं मृत्तिकां दद्यात् । करयोः पादयोः सकृत्सकृदेव मृत्तिका देयेति शौचगृहस्थानां, द्विगुणं ब्रह्मचारिणां, त्रिगुणं वनस्थानां, चतुर्गुणं यतीनामिति ॥ यदिवा विहितं शौचं तदर्ध निशायाम्भवति मार्गे चेत्तदर्ध- मार्त्तश्चेद्यथाशक्ति कुर्यात् ॥ १ ॥ प्रक्षालितपाणिपादः शुचौ देश उपविश्य नित्यं बदशिखी यज्ञोपवीती प्रागुदङ्मुखो वा भूत्वा जान्यो- मध्ये करौ कृत्वाऽशूद्रानीतोदकैईिजातयो यथाक्रमं ह- त्कण्ठतालुगैराचामन्ति । न तद्भिन्नोष्ठेन न विरलाङगु- लिभिन तिष्ठन्नैव हसन्नापि फेनबुदबुदयुतम् । ब्रह्मतीर्थेन त्रिः पिबेद द्विः परिमृजेत् । ब्राह्मणस्य दक्षिणहस्ते पञ्च ॥