सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे गम ॥ यमदूत नमस्ते अस्तु किन्त्वाकाकारिणोऽब्रवी. दिति । क्षेम्यो ह्येव भवति। लक्षण्यं वृक्षमभिमन्त्रयते मा स्वाऽशनिर्मा परशुा वातो मा राजप्रेषितो दण्डः ॥ अङ्कुरास्ते प्ररोहन्तु निवाते त्वाऽभिवर्षतु । अग्निष्टे मूलम्माहिसीत्स्वस्ति तेऽस्तु वनस्पते स्वस्ति मेऽस्तु वनस्पत इति । स यदि किंचिल्लभेत तत्प्रतिगृह्णाति द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्विति । अथ यद्योदनं लभेत् तत्प्रतिगृह्णाति द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णा- त्विति । तस्य द्विः प्राश्नाति ब्रह्मा त्वा प्रश्नातु ब्रह्मा स्वा प्राश्नाविति । अथ यदि मन्थं लभेत् तम्प्रतिगृ- हाति द्यौस्त्वा ददातु पृथिवी त्वाप्रतिगृह्णात्विति । तस्य त्रिः प्राश्नाति ब्रह्मा त्वा ऽश्नातु ब्रह्मा त्वा प्राश्नातु ब्रह्मा वा पिबत्विति । अथातोऽधीत्याधीत्यानिराकरणम् । प्रतीकम्मे विचक्षणं जिह्वा मे मधु यद्वचः ॥ कर्णा- भ्या भूरि शुश्रुवे मा त्व५ हार्षीच्छुतम्मयि ॥ ब्र. ह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्म- कोशोऽसि । सनिरसि शान्तिरस्यनिराकरणमसि ब्रह्म- 1 कोशम्मे विश ॥ वाचा त्वा पिदधामि वाचा त्वा पिद- धामीति तिष्ठ प्रतिष्ठ स्वरकरणकण्ठ्यौरसदन्त्यौष्ठ्य- ग्रहणधारणोच्चारणशक्तिर्मयि भवतु आप्पायन्तु मे-