सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्त्यारोहणप्रकरणम् । वाश्वारोहणं व्याख्यातम् । उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्राष्ट्रोऽसि त्वष्टदेवत्यः स्वास्ति मा सम्पारयेति । रास- भमारोक्ष्यन्नभिमन्त्रयते शूद्रोऽसि शूद्र जन्मानेयो वै द्विरे- ताः स्वस्ति मा सम्पारयेति । नदीमुत्तरिष्यन्नभिमन्त्रयते नमो रुद्रायाप्सुषदे स्वस्ति मा सम्पारयेति । नावमारो- क्ष्यन्नभिमन्त्रयते सुनावमिति । उत्तरिष्यन्नभिमन्त्रयते सुत्रामाणमिति । वनमभिमन्त्रयते नमो रुद्राय वनस- दे स्वस्ति मा सम्पारयेति । गिरिमभिमन्त्रयते नमो रुद्राय गिरिषदे स्वस्ति मा सम्पारयेति । चतुष्पथ- मभिमन्त्रयते नमो रुद्राय पथिषदे स्वस्ति मा सम्पार- येति । श्मशानमभिमन्त्रयते नमो रुद्राय पितृषदे स्वस्ति मा सम्पारयेति । गोष्ठमाभिमन्त्रयते नमो रु- द्राय शकृत्पिण्डसदे स्वस्ति मा सम्पारयेति । यत्र चा- न्यत्रापि नमो रुद्रायेत्येव ब्रूयाद्रुद्रो ह्येवेद सर्वमिति श्रुतेः । सिचाऽवधूतोऽभिमन्त्रयते सिगसि न वज्रोऽसि नमस्ते अस्तु मा माहिश्मीरिति । स्तनयित्नुमभिमन्त्र- यते शिवा नो वर्षाः सन्तु शिवा नः सन्तु हेतयः । शिवा नस्ताः सन्तु यास्त्व५ सृजसि वृतहन्निति । शिवा वाश्यमानामभिमन्त्रयते शिवो नामेति । शकुनि वाश्यमानमभिमन्त्रयते हिरण्यपर्णशकुने देवानां प्रहित ज