सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभाप्रवेशप्रकरणम् ।

तां छविं परिदधीत ! ऊर्ध्वबालामित्येके । सम्वत्सरं भिक्षाचर्यं चरेत्स्वकर्म परिकीर्तयन् । अथापरमाज्या- हुतीर्जुहोति । कामावकीर्णोऽस्म्यवकीर्णोऽस्मि काम- कामाय स्वाहा कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि कामका- माय स्वाहेति । अथोपतिष्ठते सम्मा सिञ्चन्तु मरुतः समि- न्द्रः संबृहस्पतिः । सं मा यमग्निः सिञ्चतु प्रजया च धनेन चेति एतदेव प्रायश्चित्तम् ॥ १३ ॥ हनी अथातः सभाप्रवेशनम् । सभामभ्येति सभाङ्गि. रसि नादिर्नामासि विपिनामासि तस्यैते नम इति । अथ प्रविशति सभा च मा समितिश्चाभे प्रजापतेदुहि- तरौ सचेतसौ ॥ यो मा न विद्यादुपमासतिष्ठेत्सचेतनो भवतु शंसथे जन इति पर्षदमेत्य जपेदाभिभूरहमागम विराडप्रतिवाश्याः ॥ अस्याः पर्षद ईशानः सहसा सुदुष्टरो जन इति । स यदि मन्येत क्रुद्धोऽयमिति तम- भिमन्त्रयते या त एषा रराट्या तनूमन्यो: क्रोधस्य नाशनी।। तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः ॥द्यौरहं पृथिवी चाहं तौ ते क्रोधं नयामसि गर्भमश्वतर्यसहा- साविति । अथ यदि मन्येत द्रुग्धोऽयमिति तमभिमन्त्र- यते तान्ते वाचमास्यआदत्ते हृदय आदधे यत्र यत्र निहिता वाक्तां ततस्तत आददे यदहं ब्रवीमि तत्सत्यम-