सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे- रन् । अतीतश्चैकरात्रं त्रिरात्रं वा । अथ कामो- दकान्यविश्वशुरसखिसम्बन्धिमातुलभागिनेयानाम्। प्रत्तानां चैकादश्यामयुग्मान्ब्राह्मणान्भोजयित्वा मा५ सवत् । प्रेतायोदिश्य गामप्येके नन्ति पिण्डकरणे प्रथमः पितृणां प्रेतः स्यात्पुत्रवांश्चेत् । निवर्तेत चतुर्थः संवत्सरं पृथगेके । न्यायस्तु न चतुर्थः पिण्डो भवतीति श्रुतेः अहरहरन्नमस्मै ब्राह्मणायोदकुम्भं च दद्यात् । o पिण्डमप्यके निपृणन्ति ॥ ११ ॥ -कार पशुश्चेदाप्लाव्यागामग्रेणाग्नीन्परीत्य पलाशशा- खान्निहन्ति परिव्ययणोपाकरणनियोजनप्रोक्षणान्या- वृता कुर्याद्यच्चान्यत् । परिपशव्ये हुत्वा तूष्णीमपराः पञ्च वपोडरणं चाभिघारयेदेवताञ्चादिशेत् । उपा- करणनियोजनप्रोक्षणेषु स्थालपिाके चैवम् । वपा हुत्वाऽवदानान्यवद्यति सर्वाणि त्रीणि पञ्च वा स्थाली- पाकमिश्राण्यवदानानि जुहोति पश्वङ्गं दक्षिणा यदेव- ते तदैवतं यजेत्तस्मै च भागं कुर्यात्तं च ब्रूयादिमम- नुप्रापयेति नद्यन्तरे नावं कारयेन्नवा ॥ १२ ॥ गणी अथातोऽवकीर्णिप्रायश्चित्तम् । अमावास्याया चतुष्पथे गर्दभं पशुमालभते निर्ऋतिं पाकयज्ञेन य- जैत । अप्स्ववदानहोमः भूमौ पशुपुरोडाशश्रपणम् ।