सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शालाकर्मप्रकरणम् । म्पात स्वस्तिभिः सदा नः स्वाहा ।। अमी वहा वास्तो- पते विश्वारूपाण्याविशन् ॥ सखा सुशेव एधि नः स्वा- हेति । स्थालीपाकस्य जुहोति । अग्निमिन्द्रं बृहस्पति वि. श्वांश्चदेवानुपह्वये । सरस्वती च वाजी च वास्तुमे दत्त- वाजिनः स्वाहा । सर्पदेवजनान् सर्वान हिमवन्त सुदर्श- नम् । बसूच रुद्रानादित्यानीशानं जगदैः सह ॥ एता- न्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । पूर्वा- मे हमपराह्नवीभौ मध्यं दिना सह प्रदोषमर्द्धरात्रं च व्यु- ष्टां देवी महापथाम् ॥ एतान्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा ॥ कर्तारं च विकारं विश्वकर्माणमो. षधींश्च वनस्पतीन् ॥ एतान्सर्वान्प्रपद्येऽहं वास्तु मे द- त्तवाजिनः स्वाहा ।। धातारं च विधातारं निधीनां च पति सह ॥ एतान्सर्वान्प्रपद्ये हं वास्तु मे दत्त वाजि- नः स्वाहा ॥ स्योन शिवमिदं वास्तु दत्तं ब्रह्मप्रजाप- ५ ती ॥ सर्वाश्च देवताः स्वाहेति प्राशनान्ते कास्ये स- म्भार नोप्यौदुम्बरपालाशानि ससुराणि शाडलं गोमयं दधि मधु घृतं कुशान्यवांश्वासनोपस्थानेषु प्रोक्षेत्पूर्वे सन्धावाभिमृशति-श्रीश्च त्वा यशश्च पूर्वे सन्धौ गोपाये- तामिति । दक्षिणे सन्धावाभिमृशति-यज्ञश्च त्वा दक्षिणा च दाक्षणे सन्धौ गोपायतामिति । पश्चिमे सन्धावभिमृश- 157