सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे- - तु घृतमुच्छ्रमाणा । अश्वावती गोमती सूनृतावत्युच्छ्र- यस्त्र महते सौभगाय ॥ आत्वा शिशुराक्रन्दत्वा गावो धेनवो वाश्यमानाः ॥ आत्वा कुमारस्तरुण मोआवत्सो जगदैः सह ॥ आत्वा परिघुतः कुम्भ आदनः कल- शैरुप । क्षेमस्य पत्नी बृहती सुवासा रयिं नो धेहि सुभ- गे सुवीर्यम् ॥ अश्वावगोमदूर्जरवत्पर्ण वनस्पतेरिव ।। अभिनः पूर्यता५ रायिरिदमनुश्रेयो वसान इति चतुरः प्रपद्यते । अभ्यन्तरतोग्निमुपसमाधाय दक्षिणतो ब्रह्माण- मुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाक अप- यित्व निष्क्रम्य द्वारसमीपे स्थित्वा ब्रह्माणमामन्त्र- यते ब्रह्मन् प्रविशामीति । ब्रह्मानुज्ञातः प्रविन शत्यृचम्प्रपद्ये शिवं प्रपद्य इति आज्य५ संस्कृत्ये- हरतिरित्याज्याहुती वापरा जुहोतिः ॥ वास्तोष्पते प्रतिजानीह्यस्मान्त्स्वावेशो अनमीवो भवानः ॥ यत्त्वे- महे प्रति तन्नो जुषस्व शन्नो भव र द्विपदे शञ्चतु- पदे स्वाहा ।। वास्तोष्पते प्रतरणो न एधि गयस्फानो मोभिरश्वेभिरिन्दो ।। अजरासस्ते सख्यास्यामा पितेव पुत्रान्प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा ॥ वास्तोष्पते। शग्मया सश्सदा ते सक्षीमहि रणवया गातुमत्या ॥ पाहि क्षेम उत योगे वरन्नो यूय -