सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आग्रहायणीकर्मप्रकरणम् । ४३ उत्सृष्टेबिलिरित्याह । पश्चादग्नेः स्रस्तरमास्तीर्याहतं च वास आप्लुता अहतवाससः प्रत्यवरोहन्ति दक्षिणतः स्वामी जायात्तरा यथा कनिष्ठमुत्तरतः । दक्षिणतो ब्रह्मा- णमुषवेश्योत्तरत उदपात्र शमीशाखासीतालेोष्टाश्मनो निधायानिमीक्षमाणो जपति । अयमग्निरितमोऽयं भगव. त्तमः सहस्रसातमः ॥ सुवीर्योऽय श्रेष्ठो दधातु नावि- ति। पश्चादग्नेः प्राञ्चमञ्जलिं करोति । दैवी नावमिति तिस- भिः स्रस्तरमारोहन्ति । ब्रह्माणमामन्त्रयते ब्रह्मन्प्रत्यवरो- हामेति । ब्रह्मानुज्ञाता: प्रत्यवरोहन्त्यायुः कीर्तिर्यशो ब लमन्नाद्यं प्रजामिति । उपता जपन्ति सुहेमन्तः सुवस- न्तः सुग्रीष्मः प्रतिधीयतान्नः ॥ शिवा नो वर्षाः सन्तु शरदः सन्तु नः शिवा इति । स्योना पृथिवि नो भवेति दक्षिणपार्श्वे प्राक्शिरसःसंविशन्ति । उपोत्तिष्ठन्त्युदायु- षा स्वायुषोत्पर्जन्यस्य वृष्टया पृथिव्याः सप्तधामभिरि- ति । एवं द्विरपरं ब्रह्मानुज्ञाताः । अधः शयीरंश्चतुरो मासान्यथेष्टं वा ॥ २ ॥ तुगी -pp ऊर्ध्वमाग्रहण्यास्तिस्रोष्टका। ऐन्द्री वैश्वदैवी प्राजाप- त्या पित्र्येति । अपूपमा सशाकैर्यथासंख्यम् । प्रथमाष्ट- का पक्षाष्टम्याम् । स्थालीपाकर श्रपयित्वाज्यभागाविष्वा- ज्याहुतीर्जुहोति । त्रिशत्वसार उपयन्ति निष्कृति५