सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ पारस्करगृह्यसूत्रे- मोषधीः कृणोतु विश्वचर्षणिः । भद्रान्नः श्रेयः समनेष्ट देवास्त्वया वशेन समशीमहि त्वा। स नो मयोऽभः पितो आविशस्त्र शन्तोकाय तन्वैस्योन इति । अन्नपतीयया- वा अथ यवानामेतमुत्यं मधुना संयुतम् । यव५ सरस्व- त्या अधिवनाय चकृषुः । इन्द्र आसीत्सीरपतिः शत- ऋतुः कीनाशा आसन्मरुतः सुदानव इति ततो ब्राह्म- णभोजनम् ॥ १ ॥ीलानिमाणिक मार्गशीर्ष्याम्पौर्णमास्यामाग्रहायणीकर्म। स्थाली- पाक ५ श्रपयित्वा श्रवणवदाज्याहुतीर्हत्वापराजुहोति या जनाः प्रतिनन्दन्ति रात्री धेनुमिवायतीम् ॥ संवत्सरस्य या पत्नीः सा नो अस्तु सुमङ्गलीः स्वाहा ॥ संवत्सर- स्थ प्रतिमा या ता५ रात्रिमुपास्महे ॥ प्रजा सुवीर्या कृत्वा दीर्घमायुर्व्यश्नवै स्वाहा ॥ संवत्सराय परिवत्सराये- ।। दावत्सरायेद्वत्सराय वत्सराय कृणुते बृहन्नमः ॥ तेषां वय५ सुमतौ यज्ञियानां ज्योग्जीता अहता स्यामः स्वाहा ।। ग्रीष्मो हेमन्त उत नो वसन्तः शिवा वर्षा अभया शरन्नः । तेषामृतूना५ शतशारदानां निवात एषामभये व- सेम स्वाहेति । स्थालीपाकस्य जुहोति-सोमाय मृगशिरसे मार्गशीष्यै पौर्णमास्यै हेमन्तायचेति । प्राशनान्ते सक्तु- शेष५ शूर्प न्युप्योपनिष्क्रमणप्रभृत्यामार्जनात् । मार्जनान्ते