सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे- श्रेर्दभैस्तीत्वोपभागाविष्ट्वाज्याहुतीर्जुहोति । पृथिवी द्यौः प्रदिशो दिशो यस्मै शुभिरावृताः ॥ तमिहेन्द्रमुपह्वये शिवा नः सन्तु हेतयः स्वाहा । यन्मे किञ्चिदुपेप्सित- मस्मिन्कर्मणि वृत्रहन् । तन्म सर्व समृध्यता जीवतः शरदः शत५ स्वाहा । संपत्तिभूतिभूमिवृष्टिज्यैष्ठय श्रीः प्रजामिहावतु स्वाहा । यस्याभावे वैदिकलौकिकानां भूतिर्भवति कर्मणाम् । इन्द्रपत्नीमुपह्वये सीता सा मे वन्नपायिनी भूयात्कर्मणि कर्माण स्वाहा । अश्त्रावती गोमती सूनृतावती बिभर्ति या प्राणभृतो अतन्द्रिता । खलमालिनीमुर्वरामस्मिन्कर्मण्युपह्वये ध्रुवा५ सा मे त्व नपायिनी भूयात्स्वाहेति । स्थालीपाकस्य जुहोति सीतायै यजायै चमायै भूत्या इति । मन्त्रवत्प्रदानमे- केषाम् । स्वाहाकारप्रदाना इति श्रुतेर्विनिवृत्तिः । स्तरणशेषकुशेषु सीतागोप्तृभ्यो बलि हरति पुरस्ता- घे त आसते सुधन्वानो निषङ्गिणः । ते त्वा पुरस्ताद् गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति । अथ दक्षिणतोऽनिमिषा व- मिण आसते । ते त्वा दक्षिणतो गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममि- ति । अथ पश्चादाभुवः प्रभुवो भूतिभूमिः पाणिः शुन-