सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ पारस्करगृह्यसूत्रे- - शके । द्वादशकेऽप्येके । गुरुणानुज्ञातो विधिविधेयस्तर्कश्च वेदः षडङ्गमेके न कल्पमात्रे कामं तु याज्ञिकस्य उपसं- गृह्य गुरु५ समिधोऽभ्याधाय परिश्रितस्योत्तरतः कुशेषु प्रागग्रेषु पुरस्तास्थित्वाऽष्टानामुदकुम्भानाम् येऽस्व- न्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूषो मनोहारखलो विरुजस्तनूदृषुरिन्द्रिय हा तान्विजहामि यो रोचनस्तमिह गृह्णामीत्येकस्मादपो गृहीत्वा तेनाभिषिञ्चते । तेन मा. मभिषिञ्चामि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसायेति । येन श्रियमकृणुतां येनावमृशता सुराम । सुराम । येनाक्ष्यावभ्यषि- ञ्चतां यहां तदश्विना यश इति आपोहिष्ठेति च प्रत्य. चम् त्रिभिस्तूष्णीमितरैः । उदुत्तममिति मेखला- मुन्मुच्य दण्डं निधाय वासोऽन्यत्परिधायाऽऽदित्यमुप- तिष्ठते-उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्प्रातर्याव- भिरस्थादशसनिरसि दशसनिं मा कुर्वाविदन्माग- मय । उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थादिवा याव-, भिरस्थाच्छतसनिरसि शतसनि मा कुर्वाविदन्मा गमय । उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्सायं यावभिरस्था- त्सहस्रसनिरसि सहस्रसनिं मा कुर्वाविदन्मागमयेति दधि तिलान्या प्राश्य जटालोमनखानि स हत्यौदुम्बरेण दन्ता- न्धावेत--"अन्नाधाय व्यूहध्वः सोमो राजायमाग- -