ममावर्तनप्रकरणम् । २१ वहार्या भवन्तीतिवचनात् ॥ ६ ॥ - अथोपनीतो ब्राह्मणस्त्रिशिखः शिखी जटिलो मुण्डो वाक्षारालवणाशी स्यात्सावित्र५ षड्रात्रं त्रिरात्र सद्यः कालं वा चरेत्तदेव व्रतमुदीक्ष्य दण्डमपोनिधाय मेखला यज्ञापवीतं चाप्स्वन्तरिति प्रत्यूचं नमो वरु- णायेति त्रिमधुरं दत्वा ततोऽस्याग्नेयं प्रथमं वेदवतमा- दिशेब्राह्मणक्षत्रियविशां पञ्च सांवत्सरिकाणि वेदव्रतानि भवन्ति आग्नेय शुक्रियमोपनिषद शोलभङ्गोदान- मिति । पञ्च सांवत्सरिकाणि वेदव्रतानि चरित्वा स्नात्वो- पव्रतं चरेत् त्रिष्ववगुण्ठन शुक्रियादिषु शुक्रिय५ शुक्रा- भिः श्रावयेदौपनिषदमोपनिषद्भिः शौलभ शौलभिनी- भिरथ वा विद्यमान आब्रह्मन्नुदीरतामानोभद्रा आशुः- शिशान इमानुकमिति च वेदशिरसाऽवगुण्ठयेद वगुण्ठनी त्रिवलिं पञ्चवलिं वा नाभिदेशात्प्रच्छाद्य वाग्यतोऽर- ण्येऽधः शयीत ग्रामे गोष्ठे देवतायतने वा न्युष्टायामव- गुण्ठनीमरण्ये विसृजेददृश्रमस्योदुत्यं चित्रंदेवानामि- त्युदितेऽर्के जपति, वर्षति द्यौः शान्तिरिति शान्ति करोति शान्तिभाजनं गुरवे दद्यात् । एवमेवावगुण्ठनी च गो- दाने गोमिथुनं तस्माद्गोदानमिति तस्माद्गोदानमिति ॥७॥ वेद समाप्य स्नायात् । ब्रह्मचर्य वाऽष्टाचत्वारि .
पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/३७
दिखावट