पारस्करगृह्यसूत्रे- वैश्यस्य सर्वेषां वा गन्यमसति प्रधानत्वात् । मौञ्जी र- शना ब्राह्मणस्य धनुा राजन्यस्य मौ: वैश्यस्य । मुजाभावे कुशाश्मन्तकबल्बजानाम् । पालाशो ब्राह्म- णस्य दण्डः, बैल्बो राजन्यस्य, औदुम्बरो वैश्यस्य । केशसम्मितो ब्राह्मणस्य दण्डो, ललाटसंमितः क्षत्रियस्य, घ्राणसम्मितो वैश्यस्य सर्वे वा सर्वेषाम् । आचार्येणाहूत उत्थाय प्रतिशृणुयात् । शयानं चेदासीन आसीनं चे- त्तिष्ठस्तिष्ठन्तं चेदभिक्रामन्नभिक्रामन्तं चेदभिधावन् । स एवं वर्तमानोऽमुत्राद्य वसत्यमुत्राद्य वसतीति तस्य स स्नातकस्य कीर्तिभवति । त्रयः स्नातका भवन्ति वि- द्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति । समाप्य वेदमसमाप्य व्रतं यः समावर्तते स विद्यास्नातकः । स- माप्य व्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः उभय५ समाप्य यः समावर्तते स विद्याव्रतस्नातक इति । आषोडशावर्षाद्राह्मणस्य नातीतः कालो भवति आहाविशाद्राजन्यस्य आचतुर्विशाढेश्यस्य अत ऊ- र्च पतितसावित्रीका भवन्ति नैनानुपनयेयुर्नाध्यापयेयु- न याजयेयुर्न चैभिर्व्यवहरेयुः कालातिक्रमे नियतवत् । त्रिपुरुषं पतितसावित्रीकाणामपत्येऽसंस्कारो नाध्यापनं च तेषा संस्कारप्सुत्यिस्तोमेनष्ट्वा काममधीयीरन्त्य-
पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/३६
दिखावट