सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ पारस्करगृह्य सूत्रे - धमाधेह्यपोशानति । अथास्मै सावित्रीमन्वाहोत्तरतोऽग्नेः प्रत्यङ्मुखायोगविष्टायोपसन्नाय समीक्षमाणाय समीक्षि- ताय दक्षिणतस्तिष्ठत आसीनाय वैक पच्छोऽईचशः स- वीञ्च तृतीयेन सहानुवर्तयन्संवत्सर षण्मास्ये चतुर्वि- शत्यह हादशाहे षडह व्यह वा सद्यस्त्वव गायत्री ब्राह्मणायानुब्रूयात्-"आग्नेयो वै ब्राह्मणः" इति श्रुतेः त्रिष्टुभ राजन्यस्य, जगतीं वैश्यस्य सर्वेषां वा गाय- त्रीम् ॥ ४॥ अत्र समिदाधानम् । पाणिनाग्निं परिसमूहति-"अग्ने सुश्रवः सुश्रवसं मा कुरु ॥ यथा त्वमग्ने सुश्रवः सुश्रवा अस्येवं मा सुश्रवः सौश्रवसं कुरु ॥ यथा त्वमग्ने देवानां यज्ञस्य निधिपा अस्येवमहं मनुष्याणां वेदस्य निधिपो यासम् इति । प्रदक्षिणमनिं पर्युक्ष्योत्तिष्ठन्समिधमादधाति- "अग्नये समिधमाहाई बृहते जातवेदसे । यथा त्वमग्ने समि- धा समिध्यस एवमहमायुषा मेधया वर्चसा प्रजया पशुभि- ब्रह्मवर्चसेन समिन्धे जीवपुत्रो ममाचार्यो मेधाव्यहमसा- न्यनिराकरिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्चस्यन्नादो भूया- स५ स्वाहा' इति । एवं द्वितीया, तथा तृतीयाम् । एषा त इति वा, समुच्चयो वा । पूर्ववत्परिसमूहनपर्युक्षणे । पाणी प्रतप्य मुखं विमृष्ट-तनूपा अग्नेऽसि तन्वं मे पाह्या- भू- -- .