सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ पारस्करगृह्यसूत्र- - - ब्राह्मणभोजनम् ॥ २ ॥ अष्टवर्ष ब्राह्मणमुपनयेद्गर्भाष्टमे वा, एकादश- वर्ष राजन्यं, द्वादशवर्ष वैश्य, यथामङ्गलं वा सर्वेषाम् । ब्राह्मणान्भोजयेत्तं च पर्युप्तशिरसमलङ्कृत- मानयन्ति । पश्चादग्नेरवस्थाप्य "ब्रह्मचर्यमागाम्" इति वाचयति "ब्रह्मचार्यसान इति च । अथैनं वासः परि- धापयति-येनेन्द्राय बृहस्पतिर्वासः पर्यदधादमृतम् ॥ - तेन त्वा परिदधाम्यायुष दीर्घायुत्वाय बलाय वर्चसे" इति । मेखलां बनीते-"इयं दुरुक्तं परिबाधमाना वर्ण पवित्रं पुनती म आगात् ॥ प्राणापानाभ्यां बलमादधा- ना स्वसा देवी सुभगा मेखलेयम्'इति । “युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः ॥ तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः'इति घा । तुष्णीं वाऽत्र यज्ञोपवीतपरिधानम्-"यज्ञोपवीतं परमं पवित्र प्रजापतेर्यत्सहजं पुरस्तात् ॥ आयुष्यमन्त्र प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः" ॥ “यज्ञोपवी- तमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि” इति ।अथाजिनं प्रयच्छति-"मित्रस्य चक्षुर्द्धरुणं बलीयस्तेजो यशस्त्रि स्थाविर ५ समिद्धम् ॥ अनाहनस्यं वसनं जरिष्णुः परीदं वाजिनं दधेहम्"इति, तुष्णीं वा । दण्डं प्रयच्छति- 6