कर्णवेधप्रकरणम् । २३ 1 मादाय निवर्तयामीति प्रवपति-येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ॥ तेन ब्रह्माणो वपते- दमस्यायुष्यं जरदष्टिर्यथा सत्" इति। स केशानि प्रच्छि- द्यानडुहे गोमयपिण्डे प्रास्यत्युत्तरतो ध्रीयमाणे । एवं हिरपरंतूष्णीम् इतरयोश्चोन्दनादि । अथ पश्चात् व्यायुष. मिति । अथोत्तरतो येन भूरिश्चर। दिवं ज्योक्क पाहि सूर्यम् ॥ तेन ते वपामि ब्रह्मणा जीवातवे जीवनाय सुश्लोक्याय स्वस्तये” इति त्रिः क्षुरेण शिरः प्रदक्षिणं परिहरति । समुखं केशान्ते “यत्क्षुरेण मज्जयता सुपेश- सा वप्त्वा वा वपति केशांश्छिन्धि शिरो मास्यायुः प्रमो पीः । 'मुखम' इति च केशान्ते ताभिरद्भिः शिरः समुद्य नापिनाय क्षुरं प्रयच्छति-"अक्षण्वं परिवप"इति । यथामङ्गलं केशशेषकरणम् । अनुगुप्तमेत५सकेशं गोम- यपिण्डं निधाय गोष्ठे पल्बल उदकान्ते वाऽऽचार्याय वरं ददाति गां केशान्ते संवत्सर ब्रह्मचर्यमवपनं च केशा. न्ते द्वादशरात्र षड्रात्रं त्रिरात्रमन्ततः ॥ १ ॥ अथ कर्णवेधः । वर्षे तृतीये पञ्चमे वा पुष्येन्दुवि- त्राहरिरेवतीषु पूर्वाह्ने कुमारस्य मधुरं दत्वा प्राङ्मुखा- योपविष्टाय दक्षिणं कर्णमभिमन्त्रयते-"भद्रं कर्णेभिः" इति, सव्यं वक्ष्यन्तीवेत्" इति च । अथ भिन्द्यात्ततो
पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/३१
दिखावट