सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे- यथालिङ्गमङ्गानि संमृशति । स्नात्वा तदूर्वा नैर्ऋतं पायस श्रपयित्वा काश्मर्यमय सुनुवंप्रतप्य संमृज्या- न्वारब्ध आधारावाज्यभागौ हुत्वा“सुन्वन्तम्" इति चतस्रः स्थालीपाकेन जुहुयात्पञ्चदशाज्याहुतीश्चतुर्ग्रहीतेन जुहो- ति-"कृणुष्वपाज' इति पञ्च “मानस्तोक'इति द्वे “या ते रुद्र शिवा तनूः' इति षट् “अग्नीरक्षासि सेधति शुक्रज्यो- तिरमर्त्यः ॥ शुचिः पावक ईड्य" इति “त्वन्नः सोम वि- श्वतो रक्षाराजन्नघायतो नरिष्ये त्वावतः सखा इति स्वि- टकृदादिप्राशनान्ते कृष्णा गौः कृष्णाश्च तिला हेममय- मूल ५ सप्तधान्यसंयुक्तमाचार्याय वरं दद्यात्कृष्णोऽनड्वान्व- ह्मणे दद्यान्नक्षत्रसूचकेभ्यो वासो दद्यादन्येभ्यो ब्राह्मणेभ्यः सुवर्ण दद्यात्कृसरान्नपायसेन ब्राह्मणान्भोजयेत्मार्पदैवते गण्डजातानामेष एवं विधिः कात्यायनेनोक्तः कात्या- यनेनोक्तः ॥ २१ ॥ दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता नाम करोति यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घा- भिनिष्ठानं कृतं कुर्यान्न तद्धितम् । अयुजाक्षरमाकारान्त । स्त्रियै तद्धितम् । शर्म ब्राह्मणस्य वर्म क्षत्रियस्य गुप्तेति । वैश्यस्य । चतुर्थे मास्त्रि निष्क्रमणिका । सूर्यमुदीक्षयति "तचक्षुः" इति ॥ २२ ॥