सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्नप्राशनप्रकरणम् । २१ 6 प्रोष्यैत्य गृहानुपतिष्ठते पूर्ववत् । पुत्रं दृष्ट्वा जप- ति-"अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ॥ आत्मा वै पुत्रनामासि स जीव शरदः शतम्'इति । अथास्य मूर्दानमवजिघ्रति-"प्रजापतेष्ट्वा हिङ्कारेणावजिघ्रामि सहस्रायुषाऽसौ जीव शरदः शतम् इनि, “गवां त्वा हिङ्कारण' इति च त्रिदक्षिणेऽस्य कर्णे जपति । “अस्मे प्रयन्धि मघवन्नृजीषिन्निन्द्र रायो 1 विश्ववारस्य भूरेः ॥ अस्मे शत५ शरदो जीव- से धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन्" इति । "इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।। पोष५ रयीणामरिष्टिं तनूना५ स्वामानं वाचः सुदिनं त्व महाम्” इति सव्ये । स्त्रियै तु मूनिमेवावजिघ्रति तूष्णीम् ॥ २३ ॥ षष्ठे मासेऽन्नप्राशनम् । स्थालीपाक श्रपयित्वाऽऽ- ज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति-“देवीं वाचमजनयन्त दे- वास्तां विश्वरूपाः पशवो वदन्ति ॥ सा नो मन्द्रेषमूर्ज दुहाना धेनुर्वागस्मानुपसुष्ठनैतु स्वाहा' इति । "वाजो नो अद्यौ'इति च । द्वितीयां स्थालीपाकस्य जुहोति-'प्राणे- नान्नमशीय स्वाहाऽपानेन गन्धानशीय स्वाहा चक्षुषा रूपाण्यशीय स्वाहा श्रोत्रेण यशोऽशीय स्वाहा इति । प्रा. -