सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ जातकर्मप्रकरणम् । शतश्रृणुयाम शरदः शतमिति । अथैनमभिमृशत्यश्मा भव परशुर्भव हिरण्यमस्रुतं भव ॥ आत्मा वै पुत्रनामा- सि स जीव शरदः शतमिति । अथास्य मातरमभिम- न्त्रयत इडासि मैत्रावरुणी वीरे वीरमजीजनथाः ॥ सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदिति । अथा- स्य दक्षिण स्तनं प्रक्षाल्य प्रयच्छतीम स्तनमिति य- स्ते स्तन इत्युत्तरमेताभ्याम् । उदपात्र शिरस्तो निद- धात्यापो देवेषु जाग्रथ यथा देवेषु जाग्रथ ॥ एवमस्या सूतिकाया५सपुत्रिकायां जाग्रंथति। द्वारदेशे सूतिकाग्निमु- पसमाधायोत्थानात्सन्धिवेलयोः फलीकरणमिश्रान् सर्षपा- नग्नावावपति-“शण्डामर्का उपवीरः शौण्डिकेय उलूखलः ॥ मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा ॥ आ- लिखन्ननिमिषः किं वदन्त उपश्रुतिहर्यक्षः कुम्भीशत्रुः पा- त्रपाणिनृमणिर्हन्त्रीमुखः सर्षपारुणश्च्यवनो नश्यतादितः स्वाहा"इति। यदि कुमार उपद्रवेजालेन प्रच्छाद्योत्तरीयेण वा पिताङ्क आधाय जाति-“कुर्कुरः सुकूकुरः कुर्कुरो बालब- न्धनः॥चेचेच्छुनक सृज नमस्ते अस्तु सीसरो लपेताप- ह्वर तत्सत्यम् ॥ यत्ते देवा वरमददुः स त्वं कुमारमेव वा वृणीथाः॥ चेञ्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेता- पह्वर तत्सत्यम् । यत्ते सरमा माता सीसरः पिता श्या-