सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे १३ ॥ EPTE - आसिञ्चतु प्रजापति ता गर्ने दधातु ते ॥ गर्भ धेहि सिनीवालि गर्भ धेहि पृथुष्टुके ॥ गर्भ ते अश्विनौ देवावाधत्तां पुष्करस्रजाविति । ससृजेथास्तेजो वै- . श्वानरो दद्याब्रह्माणमामन्त्रयते ब्रह्मा गर्भ दधात्विति । प्राङ्मुख उद्ङ्मुखो वोपविष्टो मन्थेद्रेतोमूत्रमिति चैके स्रावणं कुर्यात् ॥ १४ ॥ सा यदि गर्भ न दधीत सिह्या श्वेतपुष्प्या उपोष्य पुष्पेण मूलमुत्थाप्य चतुर्थेऽहनि स्नातायां निशायामुद- पेषं पिष्ट्वा दक्षिणस्यां नासिकायामासिञ्चति-'इयमोषधी नायमाणा सहमाना सरस्वती । अस्या अहं बृहत्याः पुत्रः पितुरिव नाम जग्रभम्' इति ॥ १५ ॥ अथ पुसवनम् । पुरा स्यन्दतइति मासे द्वितीये तृतीये वा । यदहः पुश्सा नक्षत्रेण चन्द्रमा युज्येत त- दहरुपवास्याप्लाव्याऽहते वाससी परिधाप्य न्यग्रोधावरो- हाछुङ्गांश्च निशायामुदपेषं पिष्ट्वा पूर्ववदासेचन५ हि- रण्यगर्भोऽयः संभृत इत्येताभ्याम् । कुशकण्टक सो- माशुं चैके। कूर्मपित्तं चोपस्थे कृत्वा स यदि कामये- त वीर्यवान्स्यादिति विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः ॥ १६ ॥ - अथ सीमन्तोन्नयनम् ॥ पुसवनवत्प्रथमगर्भे 15237