सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे - तत एनां मूईन्यभिाषञ्चति-"या ते पतिघ्नी प्रजानी पशुघ्नी गृहघ्नी यशोघ्नी निन्दिता तनूरिघ्नी तत एनां करोमि सा जीर्यत्वं मया सहासौ इति । अथैना स्थालीपाकं प्राशयति-"प्राणैस्ते प्राणान्संदधाम्यस्थिभि- रस्थीनि मा सैर्मासानि त्वचा त्वचम् इति । तस्मा- देवविच्छोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवं वित्परो भवति । तामुदुह्य यर्थतुप्रवेशनम् । यथाकामी घा “काम- 1 माविजनितोः सम्भवाम' इति वचनात् । अथास्यै दक्षि- णासमधिहृदयमालभते-“यत्ते सुसीमे हृदयं दिवि च- न्द्रमसि श्रितम् ॥ वेदाहं तन्मां ताहयात्पश्येम शरदः शतं जीवेम शरदः शत५ श्रृणुयाम शरदः शतम्' इति । एवमत ऊर्ध्वम् ॥ ११ ॥ पक्षादिषु स्थालीपाक अपयित्वा दर्शपूर्णमास- देवताभ्यो हुत्वा जुहोति ब्रह्मणे प्रजापतये विश्वेभ्यो दे- वेभ्यो द्यावापृथिवीभ्यामिति । विश्वभ्यो देवेभ्यो बलिहरणं भूतगृह्येभ्य आकाशाय च ।वैश्वदेवस्याग्नौ जुहोति-'अग्नये स्वाहा, प्रजापतये स्वाहा, विश्वेभ्यो देवेभ्यः स्वाहा,ऽग्नये स्विष्टकृते स्वाहा इति । प्राशनान्ते बाह्यतः स्त्रीबलिए हरति-'नमः स्त्रियै नमः पुश्से वयसेऽययसे नमः शुक्लाय कृष्णदन्ताय पापीनां पतये नमो ये मे प्रजामुप- 1155 -