सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० स्थालीपाकप्रकरणम् । संस्कृत्येह रतिरिति जुहोति नानामन्त्राभ्याम् । अन्य- द्यानमुपकल्प्य तत्रोपवेशयेद्राजान५ स्त्रियं वा प्रतिक्षत्र इति यज्ञान्तेनात्वाहार्षमिति चैतया । धुर्यो दक्षिणा । प्रायश्चित्तिः । ततो ब्राह्मणभोजनम् ॥ १० ॥ । चतुमिपररात्रे ऽभ्यन्तरतोऽग्निमुपसमाधाय द- क्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्था- लीपाक अपयित्वाज्यभागाविष्ट्वाज्याहतीर्जुहोति । अग्ने प्रायश्चित्तं त्वं देवानांप्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पतिघ्न। तनूस्तामस्यै नाशय स्वाहा ॥ वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणरत्वा नाथकाम उपधावामि यास्यै प्रजाघ्नी तनूस्तामस्यै नाशय स्वाहा ।। सूर्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पशुघ्नी तनू- स्तामस्यै नाशय स्वाहा ॥ चन्द्र प्रायश्चित्तं त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि या- स्यै गृहन्नी तनूस्तामस्यै नाशय स्वाहा ॥ गन्धर्व प्रा- यश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथ- काम उपधावामि यास्यै यशोघ्नी तनूस्तामस्यै नाशय स्वाहेति । स्थालीपाकस्य जुहोति प्रजापतये स्वाहेति । हुवा हुत्वैतासामाहुतीनामुदपात्रे सवान्समवनीय