सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे "५ विविदे गन्धर्वो विविद उत्तरः ॥ तृतीयोऽग्निष्ट पति- स्तुरीयस्ते मनुष्यजाः ॥ सोमो ऽददद्गन्धर्वाय गन्धवों ऽदददग्नये ॥ रयिश्च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥ सा नः पूषा शिवतमामैरय सा न ऊरू उशती विहर ॥ यस्यामुशन्तः प्रहराम शेपं यस्यामु कामा बहवो निविष्ट्या' इति ॥ ४ ॥ प्रदक्षिणमग्नि पर्याणीयैके। पश्चादग्नेस्तेजनी कटं वा दक्षिणपादेन प्रहत्योपविशति । अन्वारब्ध आधारावाज्य- भागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्राजापत्य स्विष्टकृच्च । एतन्नित्य सर्वत्र । प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चे- दाज्याडविः । सर्वप्रायश्चित्तं प्राजापत्यान्तरमतदावाप- स्थानं विवाहे । राष्ट्रभृतइच्छञ्जयाभ्यातानाँश्च जानन् । येन कर्मणेदिति वचनात् । चित्तं च चित्तिश्चाकूतं चा- कूतिश्च विज्ञातं च विज्ञातिश्च मनश्च शक्करीश्च दर्शश्च पौर्णमासं च बृहच्च रथन्तरं च प्रजापतिजयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतना जयेषु ॥ तस्मै विशः समन- मन्त सर्वाः स उग्रः स इ हव्यो बभूव स्वाहा' इति । 'अग्निभूतानामधिपतिः स माऽवत्विन्द्रौ ज्येष्ठानां यमः पृथिव्या वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणा बृहस्पतिब्रह्मणो मित्रः सत्यानां वरुणोपा समुद्रः स्रो-