( ८४ ) वस्तुतः सांख्येति पदं शुद्धं तात्त्विकं च ज्ञानम् अभिदधाति । यत्र ज्ञानं शुद्धम्, तत्र प्रमेयगता विशेषाः कृत्स्नशो विज्ञायन्ते, कति कियन्तो वेति । ततश्च यच्च शुद्धं कृत्स्नं तात्त्विकं ज्ञानं, तत् सर्वदा संख्यान्वितमेव स्यादिति कृत्वा सांख्यमिति पदस्य प्रवृत्तिरभवदिति विज्ञायते ( मत्स्य० ३।२६ ); अथवा सम्यगाख्यातमिति कृत्वा सांख्यमित्युच्यते । वस्तुतः सम्यग्दर्शनमिदम् इत्यतः ( शान्ति ३० ६।४५ ) सांख्यमुक्तमित्येव कथनं युक्तं प्रतिभाति । अथवेदमपि भवितुमर्हति यत् संख्या नाम प्रमाणसहगतं विभागपूर्वकं ज्ञानम् ( द्र० शान्ति० ३२०/८२), एतादृशज्ञान विशिष्टमिदं शास्त्रमिति सांख्य- मित्युच्यते । उक्तं च "संख्यानं संख्या विवेकः तस्या इदं शास्त्रं सांखयम् ( अर्थशास्त्रजयमङ्गला, पृ० १० ) । आह च योगभाष्यकार: “एवं ग्रहीतृग्रहण- ग्राह्यस्वरूपचित्तभेदात् त्रयमप्येतज् जातितः प्रविभजन्त ते सम्यग्दर्शिन" इति ( ४ | २३ ) | ( द्र० शान्ति० ३०६/२६, २८, ३०, ४२-४३, ३०७।४५ चेति ) । आसुरिः— अयं खलु कपिलस्य प्रथमः शिष्य इति प्रागेवोक्तम् ( द्र० १।२५ व्यासभाष्यगतम् पञ्चशिखवाक्यं ) । 'आसुरिगोत्राय ब्राह्मणाये'त्युक्तम् गौडपादेन ( सां० का० १), अतो नेदमस्य नामेति विज्ञायते । माठरवृत्तौ (पृ. २ ) च तथैव दृश्यते । जयमङ्गलाटीकायां ( ७० का० ) वृत्तौ च वर्णितं यदयं महागृहस्थो यज्ञकारी चासीत् । ततश्च परमर्षित उपदेशं प्राप्य आत्मज्ञान- परायणो बभूवेति । आसुरिनामधेयस्य कस्यचिदृषेः यज्ञविषयकाणि बहूनि मतानि शतपथब्राह्मण उद्धृतानि । सांख्यविद् आसुरिरेवायमिति प्रतीयते; यतो हि आसुरिरपि यज्ञकारी प्रथमे वयस्यासीदिति । वैदिकर्षिनामसु आसुरे- नम पठ्यते, याजुषवाङ्मये च स प्रसिद्धः । आसुरीय: कल्पोऽपि स्मर्यंते ( वै. वा. इ. भाग १, पृ २८५ ) । भोगस्वरूपविषयकम् एकं मतम् “तथा चासुरिः" इत्युक्त्वा गुणरत्नसूरिणा उद्धृतम् - विविक्ते दृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिविम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ श्लोकोऽयं व्योमवतीग्रन्थेऽपि (पृ०५२ ) उद्धृतः । सांख्यीयग्रन्थेषु नैतादृशं किमपि वाक्यम् उद्धृतम्, अतः संशयो भवति- कथं न खलु सूरिणा ज्ञातं यद् वाक्यमिदमासुरेरेवेति । आसुरिकृतं ग्रन्थादिकं वचनान्तराणि च नोपलभ्यन्ते । श्लोकदर्शितः सिद्धान्तस्तु सांख्यानुमत एव ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९७
दिखावट