सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८३ ) आगमप्रमाणबलेनैव ( द्र० १ | ७ योगभाष्यम् ) श्रोतारस्तत्र ज्ञानमधिगच्छन्ति । जल्पादियुतशास्त्र प्रणयनरूपक्लिष्टकार्येषु न योगसिद्धानां प्रवृत्तिर्भवतीति न्यायाच्च कपिलः खलूपदेष्टा मूलार्थानामिति मन्तव्यम् । सांख्यसूत्रनामा ग्रन्थः खलु प्राचीनतरसांख्योपदेशयुक्तः, बहुधोपबृंहितश्च यथाकालम् ; तत्त्वसमासोऽपि नातिप्राचीनो ग्रन्थः । कपिलोपदेशसिद्धपदार्थानाश्रित्य पञ्चशिखो ग्रन्थं प्रणिनाय । तत्र च पृथक्त्वेन षष्टिः पदार्था विवृता इति पाञ्च शिखग्रन्थस्य नाम षष्टितन्त्रमभूदित्यवगम्यते ।

इदमपि संभाव्यते यद् आदिविद्वत्कपिलानन्तरम् अन्येऽपि केचन सांख्ययोगसिद्धाः कपिलपदेनोच्यन्ते स्म । कपिलसंबद्धा बहवश्च घटनाः कपिला- न्तरसंपर्कयुक्ता इत्यपि निश्चीयते । “अत्राप्युदाहरन्तीममितिहासं सनातनम्” इत्येतादृशी इतिहासपुराणभवोक्तिर्न सर्वथा सत्येतिवृत्तमाहेति स्वीकार्यमेव, अतः कपिलादीनामितिवृत्तं गुहाहितम् । वैदिकग्रन्थाः पुनः प्रोक्तपद्धत्या प्रणीता, अतो ग्रन्थगतवाक्यानां पौर्वापर्यनिर्धारणमपि दुःशकमेव । एवं सत्यपि परमर्षेः कपिलस्य सर्वदर्शनशास्त्रप्रवक्तृभ्यः प्राचीनता सिद्धैवेति सांख्य विद्या-ग्रन्थे द्रष्टव्यम् । > सांख्यतन्त्रस्वरूपम् – यत् तन्त्रं परमर्षिणा प्रोक्तं, कीदृशं तदिति प्रश्न उदेति । पञ्चशिखप्रोक्ता‘दिविद्वानि' त्या दिवाक्ये तन्त्रपदं प्रयुक्तम् तन्त्रं नाम तन्त्र्यते व्युत्पाद्यतेऽनेनेति, अतः परमर्क्युपदेशे सगुणनिर्गुणात्मज्ञानं व्युत्पादितं कार्यकारणतत्त्वमुखेनेति विज्ञायते । अत एव भागवते तत्त्वग्रामविनिर्णय- मित्युक्तम् (१ | ३ | १०)। कारुण्यपदं ज्ञापयति यत् तत्त्वज्ञानेन सह तत्त्वोपल- ब्धिमार्गोऽपि भाषितः, न खलु तत्त्वस्वरूपं श्रुत्वैव कश्चिद् दुःखनाशाय समर्थ: स्यादिति । B पारमर्षं ज्ञानमीश्वरकृष्णो निर्वति--"स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानामिति” ( ६६ का०); चिन्त्यन्ते = व्यवस्थाप्यन्ते ( जयमङ्गला ) | इदमेव तात्त्विकं मननं कार्यकारणानुसन्धानपूर्वकम्, एतादृशेन ज्ञानेनैव मोहनाशो भवति, न केवळ्या उपासनया। आहात्र आपस्तम्बः- “आत्मन् पश्यन् सर्वभूतानि न मुह्येच चिन्तयन् कविः” ( १ | २३।१ ) । अत्र चिन्तधातुः सार्थक एव । अनेन सांख्यज्ञानेन दुःखनिवृत्तिरपि भवितेत्यपि ज्ञानस्यास्य वैशिष्टयम् । तत्त्वस्वरूपेण सह उपलब्ध्युपायोऽपि कपिलेनोक्तः, अत एव देवल आइ- “पुण्यपापक्षयार्थ हि सांख्यज्ञानं विधीयते । तत्क्षयाद् हृदि पश्यन्ति ब्रह्मभावे परां गतिम्” इति ( १८१३८ ) । अत एव पुरुषार्थज्ञानमिदमि' ति सांख्य- ज्ञानविवरणावसर ईश्वरकृष्ण आह । दृष्टिरियं देवलेनापि प्रपञ्चिता ।