अतः देवहूतिपुत्रः कपिलो भागवतोक्त एव सांख्याचार्य इति माठरवृत्तिकारादयः । तन्नेति वयं मन्यामहे, यतो हि यदि नाम इदमितिवृत्तं परम्परासिद्ध' स्यात्, तई पुराणान्तरेष्वपि ( संप्रदायान्तरेष्वपि वा ) इदमनुस्मृतं स्यात् । न च कर्दमदेवहूतिविवाहादिकमन्यस्मिन् पुराणे स्मृतम्, प्रतीयते भागवतकारेण स्वाभीष्टभक्तियोगप्रसिद्धये नवीनेयं कल्पना कृता । भागवतगतेष्वन्येष्वपि विषयेषु एतादृशं स्वातन्त्र्यपूर्वकवर्णनमुपलभ्यते येषु स्वाभीष्टदेवप्राधान्यादिकं प्रतिपादितमेव ग्रन्थकृता, अतः कपिलजन्मादि- विषये भागवतमतम् परीक्ष्यैव ग्राह्यम् । 'कपिलः सिद्धेशः कालविप्लुतं सांख्यम् आसुरये प्रोवाच' – इतिः भागवतीयं मतम् ( १ | ३ | १० ) | विचार्यतामिदं वाक्यम् । आदिविद्वान् तस्य प्रथमाय शिष्याय यदा विद्यामुपदिदेश – तदा सा विद्या कथं कालविप्लुता जाता ? पूर्वकल्पीयनाशमभिलक्ष्य काललुप्तता- कथनं खल अप्रयोजकम्, अतः प्रतीयते भागवतकर्तुः सांख्यविषयिणी अज्ञता । यदा सांख्यज्ञानं काललुप्तमभवत्, तदनन्तरं केनापि विदुषा ज्ञानलोपसंवादं श्रुत्वा पूर्वापरसंबन्धमविगणय्येदं लिखितम् । अपि च भागवतगतं सांख्य विद्यावर्णनं क्वचिद् अशुद्धमपि प्रतीयते ( पृ० १४-१५ ) इत्यतः सांख्यप्रवक्तुः कपिलस्य विषये भागवतवचो न सर्वोशतः सारभूतम् । इतिहासपुराणेभ्यो ग्रन्थान्तरेभ्यश्च कपिलविषये यदुक्तं ततोऽवगम्यते परमर्षिर्हि सत्ययुगास्यान्तिमे भागे ( त्रेतायुगारम्भे वा ) सहजातधर्मशान- वैराग्यैश्वर्यः प्रादुर्बभूव' । स च परमर्षिपदेनैव बहुत्राभिहितः ( मत्स्य ० १४५/८२; शान्ति० ३४६ । ६५ ) । कपिलः खलु सांख्यविद्याया वक्ता, न पुनः निश्चितशब्दानुपूर्वीयुतशास्त्रस्य प्रणेतेति । निर्माणचित्तयुताः पुरुषा न खलु परपक्षनिर्जयादि कर्तुमीहन्ते, सेयं दृष्टिर्भारतीयैतिह्यविरुद्धा । सांख्ययोगातिरिक्तेष्वपि शास्त्रेषु सांख्यवक्ता कपिलः स्मयते, प्राचीना जैना बौद्धाश्च कपिले श्रद्धातिशयं प्रादर्शयन्नित्यतः नासौ काल्पनिको भवितुमर्हति । १. भारतीय मैतिहथमतप्राचीनमतस्तत् प्रायेण अविस्पष्टमेव | कालगणनाऽपि न सर्वत्रैकरूपा दृश्यते, पौराणिकी युगगणना चन सुज्ञेया, अत एतादृशे स्वल्पे परिसरे नायं विषयो विशदीक्रियते, प्रमाणीक्रियते वा । ग्रन्थान्तरे स द्रष्टव्यः । युक्ति- दोपिकायां कपिलजन्मादिविषये विशिष्टं कथनमुपलभ्यते ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९५
दिखावट