सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८१ ) (पृ० १४-१५ ) दर्शितम् । यानि च मतानि द्रष्टृ-दृश्य-सत्कार्यवादविरुद्धानि, तानि खलु कृत्रिमाणि सांख्ययोगमतानीत्येव मन्तव्यम् । आकरग्रन्थेभ्यश्च वक्ष्यमाणाः सांख्ययोगाचार्या ज्ञायन्ते । सांख्यकारिका- सांख्यमूत्र-तत्त्वसमास-योगसूत्रादीनां ये व्याख्याकाराः, तेषां नामानि नेह संकलितानि । ईश्वरकृष्णोऽपि योगभाष्यादर्वाचीन इत्यतस्तद्विषये न विचार्यते किमपि । विन्ध्यवासी खलु व्यासभाष्यात् प्राचीनोऽर्वाचीनो वा न निर्णत- •मस्माभिः, तस्य नाम खल्वत्र संकलितम् । इह प्रकरणे पौर्वापर्यक्रममनादृत्य आसुर्यादीनामाचार्याणां' विषये समासतो विचारः क्रियते । ते च– आसुरिः, सनन्दनः, पञ्चशिखः, जैगीषव्यः, असितः, आवट्यः, वार्षगण्यः, पराशरः, वसिष्ठः, याज्ञवल्क्यः, विन्ध्यवासी, जनकः, पतञ्जलिः, नारदः, उलूकः, देवलः, हारीतः, वाल्मीकिः, भृगुः, शुकः, गौतमः, गर्गः, आर्ष्टिषेणः, पुलस्त्यः, सनत्कुमारः, कश्यपः, अपान्तरतम इत्येवमादि । येषां पुनरुपर्युक्तानामाचार्याणां वचनादिकमुपलभ्यते, विशिष्टमितिवृत्तं वा, तानधिकृत्येह किमपि विचार्यते । अत्रेदमपि विज्ञेयं यत् सांख्ययोगविद्यैव योगाभ्यासानुरागविशेषतः, तत्त्व- ज्ञानविपर्ययतश्च बहुशाखा बभूव । अनुरागाधिक्याद् हठयोगादयो योगभेदाः, तत्त्वज्ञानविपर्ययाच्च शैववैष्णवादिसंप्रदायमेदा उत्पन्ना यथाकालम्, अत एतासां विद्यानामाचार्याः प्रवक्तारश्चापि संकीर्णसांख्ययोगाचार्या एव ( यदि तेऽकपटहृदयाः साधनान्यनुतिष्ठेयुः ) । एवं सत्यपि ते नासंकीर्णयोगविद इति कृत्वा सांख्ययोगाचार्याणामेव वचनादिकमत्र संगृह्यते । सांख्ययोगाचार्याः – अथेह कपिलादीनाचार्यानधिकृत्य समासतः किमपि विवरणं प्रस्तूयते - कपिलः– परमर्षिः कपिलः खलु निर्माणचित्तमधिष्ठायासुरये सांख्यतन्त्रं प्रोवाचेति प्रसिद्धिः । पुराणादिष्वपि परमर्षिचरितं तत्कृतसांख्यप्रवचनं चाभिहितम् । 'पुराणादिगतं सांख्यमतं न सर्वथा विशुद्धं भवतीति विज्ञेयम् । कोऽयं कपिल इति विचारणायां विशदोत्तरदानमतिदुरूहमेव । कर्दम- १. आसुरि- पञ्च शिख-जैगीषव्यादिवचनान्याश्रित्य 'काललुप्ता सांख्ययोगविद्या'- नामकः कश्चिद् ग्रन्थोऽस्माभिः प्रणीयते, यत्र पूर्वाचार्यवचसां व्याख्यानमपि करिष्यते । २. परमषि। खलु न कश्चिद् ऐतिहासिक पुरुष इति केचन प्रतिपादयन्ति ( ६० Ancient Indian Historical Tradition, go २७१, ३२६ ) ।