( ८५ ) मतमिदं बौद्ध दार्शनि केनाक्षिप्तम् – “उच्यते प्रतिविम्बस्य तादात्म्येन...' इति ( तत्त्व संग्रह २६८ का ० ) । आर्षमिदं मतमिति बौद्धा अपि अजानत । भोगः खलु बुद्धिकृत इति योगभाष्यतो गम्यते ( ११२४, २१९) । प्रतिविम्बोपमया भोगवर्णनमपि सांख्यदृष्टिसंगतमेव । शान्तिपर्वणि (२१८।१३-१४) उक्तं यदासुरिषीन् ब्रह्मतत्त्वमुपदि- देश । सांख्यज्ञानवतां किमपि मण्डलमपि समजनि तत्काल इत्यपि विज्ञायते ( २१८।१४ ) । पञ्चशिखः– अयमासुरिशिष्यः । महाभारत एतद्विषये बहुश उक्तम्, तथाहि-अयं कपिलायाः पुत्रः, आसुरेश्च शिष्य इति ( शान्ति० २१८/६ ) | इदं संभाव्यते यदस्य प्रकृतं नाम अन्यदासीत्, पञ्चशिखेति नाम हेतुजातमिति । ते च हेतवः शान्तिपर्वणि विस्तरशः प्रोक्ताः ( २१८/११-१२) | मिथिलाधिपं जनदेवजन कमयम् उपदिदेश ( शान्ति० २१८।२२-२१६ | ५२ ) । जनकं प्रति जन्ममृत्युनिवृत्तिविषयेऽप्येतत्कृता उपदेशाः सन्ति ( शान्ति० ३१६ | ६-१५ ) । जनक- वसिष्ठादिभ्यः पञ्चशिखेन सांख्यज्ञानं समाख्यातमिति युक्तिदीपिकायाम- प्युक्तम् (पृ० १७५) । शान्तिपर्वगतेष्वेषु स्थलेषु पञ्चशिखेन यत् प्रोक्तं तत् सांख्यविद्याया उपबृंहणभूतमेवेति प्रतीयते । मन्ये सांख्य-परम्परातः सांख्य विद्याप्रवचनं ज्ञात्वा भारतकारो विवरणमिदमुपनिबबन्ध । एतेषु श्लोकेषु यत् सांख्यज्ञानं प्रतिपादितं तदालोचनमन्यत्र कृतमस्माभिः' । पञ्चशिखविषये यदुक्तं भारते, ततस्तस्य प्रमाणभूतताऽपि ज्ञायते ( शान्ति २१८ । ७-६) । पञ्च शिखविषय ईश्वरकृष्ण आह— 'आसुरिरपि पञ्चशिखाय तेन च बहु- घा कृतं तन्त्रमिति ( ७० का० ) । कपिलप्रोक्तं यत् तन्त्रम् ( तन्त्रस्वरूपम् प्रागू विवेचितम् ) तत् तेन बहुधा कृतमित्यर्थः । कारिकाव्याख्यानत इदमवग- म्यते यत् सांख्य-शास्त्रीयान् षष्टि पदार्थान् आश्रित्य तेन प्रतिपदार्थविवरणपरो ग्रन्थः प्रणीतः, बहवश्च शिष्यास्तेनाध्यापिता इति । कपिलेन भगवता या विद्या समासतः प्रोक्ता, सैव विभज्य विशदीकृत्य विस्तरशश्च पञ्चशिखेन सुसं- इतरूपेण युक्तित उपनिबद्धा ग्रन्थरूपेण, प्रचारिता चेति व्यक्तं प्रतीयते । कपिलः खलु स्वपक्षस्थापनपरपक्षनिर्जयात्मकं शास्त्रं न जग्रन्थ, पञ्चशिखस्तु शास्त्रं प्रणीतवानिति । पृथकूशः विचारकरणात् षष्टिखण्डात्मकं तत् शास्त्रमभवदित्यपि १. द्र० 'काललुप्ता सांख्ययोगविद्या' नामको ग्रन्थः ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९८
दिखावट