( ७८ ) यतो हि निर्गुणपुरुषादितत्त्वस्थापनपरेयं विद्या सर्वतः सारभूता, अतो मन्वादिस्मृतिषु बैद्यके च स्वसिद्धान्तोपपत्तये गुणादीनि तत्त्वान्यभ्युपगतानि । अत एव प्रवर्तते च युक्तः प्रवादी यत् सांख्यत एव सर्वशास्त्रगता मूलभूताः प्रमेयाः समागता इति, अत एव 'सांख्या वृद्धा' इति प्रवादः प्रचलति । कृष्ण- द्वैपायनश्च 'सांख्यागतं तन्निखिलं नरेन्द्र' ( शान्ति ३०१।१०८) इत्युक्त्वा सर्वदर्शन शीर्ष भूतं सांख्यज्ञानमभ्युपगतवान् । आन्वीक्षिकीप्रधानत्वाद् इदं शास्त्रं प्रबोधनकरमित्युच्यते ( शान्ति० ३०७ | ४५) । कपिलपूर्वभव आत्मज्ञानोपदेशः– कपिलपूर्वमात्मज्ञानमिह विचार्यते । कपिलप्रशिष्यः पञ्चशिखः किल जनदेवजनकसमकालभवः ( शान्ति० २१८- २१९ अ०), जनकश्च इक्ष्वाकुवंशीयो नृप इत्यत इक्ष्वाकोरनन्तरं कपिल आविर्ब- र्भूवेति कथनीयमेवेतिहासदृशा । इक्ष्वाकुपितृ चरणस्य विवस्वतः काले नासीदात्म- ज्ञानमिति न शक्यते वक्तुम् । एतत्कालप्रोक्का ये प्राचीना वेदभागा अद्यापि प्रचलितास्तेषु सगुणमात्मज्ञानं विशेषतो दृश्यते, निर्गुणमपि क्वचिदेवास्फुटरूपेण । ऋक्संहितायां शाकलाख्यायां 'विमे कर्णा' (६|६|६) इति मन्त्रे निर्गुणात्म- ज्ञानमस्पष्टरूपेणावलोक्यते । अस्माभिर्मन्यते कपिलात् प्राक् सगुणमात्मज्ञान- मेवाविर्बभूव कृत्स्नशः; निर्गुणं च क्वचिदेव, तच्चापि ज्ञानं तत्त्वज्ञानपूर्वकं सयुक्तिकं न प्रसिद्धमासीदिति । परमर्षिः कपिलः किल पूर्वजन्मीयसहजात- संस्कारतो हिरण्यगर्भाभिध्यानाच्च निर्गुणमात्मतत्त्वं कृत्स्नथो ज्ञातवान्, स- साधनां च तां विद्यां कर्मकाण्डविदे सगुणात्मज्ञानयुक्तायासुरये प्रोवाच । अत एव श्वेताश्वतरे ( इयमुपनिषद् नातिप्राचीना) कपिलस्य ज्ञानप्राप्तिः श्रूयते (५२), न प्राचीनासु वेदसंहितासु ब्राह्मणग्रन्थेषु वा । प्राचीनेषु ब्राह्मणेषु मनोर्नाम गृहीतं न कपिलस्य, अतो ज्ञायते यत् कर्मकाण्डप्रतिपादकवेदभागप्रवचनानन्तरं कपिल आविरास । तदनन्तरं चाध्यात्मविद्या सोपपत्तिका सगुणनिर्गुणज्ञानमयी तत्त्वज्ञानपूर्वा प्रचद्रूपाऽभवद् ऋषिसमाजे । अतएवोपनिषत्सु बहुत्र सयुक्ति- कमात्मज्ञानं वर्णितं', न तथा दृश्यते संहितायाम्। ब्राह्मणे च क्वचिदेव । विषयो- ऽयमन्यत्र विशदीकरिष्यते । ज्ञायते कार्यकारणपरम्परादिप्रकटनपरेयम् अध्यात्मविद्याऽत एव वेद- तदङ्गादिभ्यः पृथक्कृत्य विद्येयं गण्यते स्म पुरा, यथाह हारीत:- "वेदा अङ्गानि धर्मः अध्यात्मं विज्ञानं स्थितिश्चेति षड्विधं श्रुतम्" इति ( स्मृतिचन्द्रिका भाग ३, पृ० २६० घृतं वाक्यम् ) । चिन्ताप्रधानं भवत्यध्यात्मशास्त्रं, सा चिन्ता पुनः सांख्यानुयायिनीति ( शान्ति० १९४|१ - ६३ ) । .१ थाहारशुद्धौ सत्त्वशुद्धिरित्यादिषचने ( छान्दोग्य० ७|२६|२ ) कार्यकारण-
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९१
दिखावट