( ७९ ) सांख्ययोगवेत्तार आदिमा वेदप्रवक्तार ऋषयः - प्रागुक्तमृषीणामात्म- ज्ञानवेत्तृत्वम् । अत्रेदं विज्ञेयम्-ऋषयः खलु तारकज्ञानान्विता इति 'ऋषयो दर्शनाद्’ इति निरुक्तव्याख्यानावसरे दुर्ग आह ( २ | ३ पाद ) । ऋषिप्रतिष्ठं यदार्षज्ञानं तत् सांख्ययोगशास्त्रान्वितमेवेति वायौ ( ५६ अ० ), ब्रह्माण्डपुराणे ( १ । ३२ अ० ), मत्स्यपुराणे ( १४५ अ० ) च विस्तरश उक्तम् । अत्र प्रकृति- महदादीनां नामानि कण्ठत उक्तानि । अत आषं ज्ञानं सांख्ययोगा- न्वितमिति सिद्धम् । योगज्ञापकाः संहितादिगता मन्त्राः – संहितादिप्राचीन वैदिकग्रन्थेषु योगाभ्यासज्ञापकानि वचनान्युपलभ्यन्ते-तं पाकेन मनसाऽपश्यम्' (ऋगू १० । ११४।४), उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योति रुत्तमम् (ऋग्० १/५० /१०), धीमहि (ऋग्० ३(५२।१०), अन्तर्हदा मनसा पूयमानाः (ऋग्० ४/४८६६), उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय (ऋग्० ७।५६ । १२), सतो बन्धूनसति निरविन्दन् हृदि प्रतीष्या कवयो मनुष्याः ( ऋ० १०/२६/४ ), यस्तन्न वेद किमृचा करिष्यति य इत् तद् विदुस्त इमे समासते ( ऋग्० १११६४१३९ ), हृदा पश्यन्ति मनसा मनीषिणः ( ऋग्● १०।१७७/१), युञ्जते मन उत युञ्जते धियः (ऋग्० ५/८१।१), वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ( माध्यन्दिन० ३१११८) इति । सांख्ययोगदृष्टिरपि मन्त्रेषु अवलोक्यतेऽविशदरूपेण-द्वा सुपर्णा सयुजा सखाया ( ऋग्० १।१६४।२०), भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त (ऋग्० १० / ७२।४ ), सप्तार्धगर्भा भुवनस्य रेत: (ऋगू० १ | १६४/३६ ), धाता यथापूर्वल्पयत् (ऋग्० ११ १६०१३), अष्टचक्रा नवद्वारा देवानां पूरयोध्या.... तस्मिन् यद् यक्षमात्मन्वत् तद् वै ब्रह्मविदो विदुः ( अथर्व ● १० | २ | ३१-३२ ) पुण्डरीकं नवद्वारं “विदुः (अथर्व ० १०/८/४३) इति । हिरण्यगर्भ-पुरुष-वाकसूक्तादिषु सगुणात्मज्ञानस्य परा काष्ठाऽवलोक्यते । ब्राह्मणारण्यकेष्वपि योगलिङ्गानि वचांसि दृश्यन्ते । अत्र खलु पिण्डब्रह्माण्डैक्य- परं वाक्यम् (ऐ० आ० ३११ | २), अन्तर्यज्ञवर्णनम् ( तै० आ० २।१७, ३।१, ३४, ३१३ ) प्राणोपासनपराणि वाक्यानि, मनसि वै सर्वे कामा मनसा हि सर्वान् कामान् ध्यायति (ऐ. आ. १ । ३(२), योऽहं सोऽसौ योऽसौ सोऽहमिति (ऐ. परम्परोक्ता । 'इन्द्रियेभ्यः परा ह्यर्थाः परा गतिः' (कठ० ३|१०-११) इत्य- त्रापि स्थूलसूक्ष्मक्रमानुसारेण प्रमेयाः स्थापिताः । कपिलादनन्तरमेव आन्वीक्षिकी- प्रधाना एषा दृष्टिः प्रवर्तिता, तत्प्राग्भवेषु वैदिकग्रन्थेषु च सामान्यत आत्मज्ञान- विवरणं प्रदत्तम् । ..m
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९२
दिखावट