पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थ प्रकरणम्* प्राचीनाः सांख्ययोगाचार्याः सनातनी सांख्ययोगविद्या-अथेह वयं कपिलादीनामितिवृत्तमधिकृत्य लघु विचारयामः । यद्यपि कपिलः खल्वादिमः सांख्ययोगप्रवक्तेत्यस्माकं मतं, तथापि ततः प्रागपि ऋषिसमाजेऽध्यात्मयोगविद्या प्रचलितासीदित्यत्र न कापि विप्रतिपत्तिः। जातिस्मराः पुरुषाः सर्गादिकाले जायन्ते, ते च सहजात- ज्ञानसंस्कारबलेन प्रथमजहिरण्यगर्भप्रणिधानपरायणा अपि भवन्ति, ततश्च सगुण निर्गुणात्मज्ञानधाराऽपि प्रचलतीति न्यायतः स्वीकरणीयम् । अत एव कपिलप्राग्भवेषु वैदिकग्रन्थेषु सगुण निर्गुणात्मज्ञानपूर्वकं वेदनमुपलभ्यते (तदेतदु- परिष्टाद् उदाहरिष्यते ) । किमर्थं तर्हि 'आदिविद्वान्' इत्युपाधिः कपिले प्रयुज्यत इति १ उच्यते- द्विविधायामात्मविद्यायां के च पदार्थाः तत्त्वतः प्रमेयाः, प्रमेयेषु कियन्तो वा विभागाः, तेषु च कार्यकारणपरम्परा कीदृशी – इत्येतेषां विषयाणां दर्शना- नुगतपद्धत्या विश्लेषणपूर्वकं प्रवचनं खलु सर्वादौ भगवता कपिलेन कृतम् अत एव स 'विद्वत्' – पदेनाभिधीयते । भवन्तु नाम ततः प्रागपि सगुण- निर्गुणात्मज्ञानसंपन्ना ऋषयः, परन्तु न त आन्वीक्षिकीपद्धत्यनुसारेणात्मविद्यां विशदीचक्रुः । आत्मज्ञानस्य व्युत्पादनं खलु पारमर्षस्य तन्त्रस्य मुख्य कार्य मिति विज्ञायते । आन्वीक्षिकीमयी ब्रह्मविद्या — आन्वीक्षिकीपद्धत्यनुसारेणात्मविद्यावर्णनं खलु कापिलैरासुरिपञ्चशिखादिभिः प्रवर्तितम्, अत एव ते सर्वे तर्पणार्हाः कृताः । ततः प्रवर्तितश्च सांख्ययोगसंप्रदायः । अध्यात्मविद्याप्रतिपादनपरशास्त्र- प्रणयनविषयेऽयं मातृकाश्लोकः- उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः । 'अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥ (शान्ति० ३५१।६)

  • अस्मिन् प्रकरणे योगभाष्यस्मृतानां योगभाष्योपजीव्यभूतानां प्रसिद्धानामा-

चार्याणामेवेतिवृत्तं लिख्यते समासतः । विमतखण्डन पूर्वंकमितिवृत्तं खलु ग्रन्थान्तरे द्रष्टव्यम् । १. अध्यात्मशास्त्रस्वरूपमाह हरि:- रागादींब बुद्धेरुपप्लवान अव तदपघात- हेतुज्ञानोपायभूतानि धध्यात्मशास्त्राणीति । (वाक्यप० १।१४७ स्वोपशटीका) । बतो