पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६५ ) प्रशानन्दस्वामी नृगादिविषये बहु विचारितवान् ( द्र० तत्कृतो वेदान्तदर्शनेर इतिहासनामा वंगभाषामयो ग्रन्थः, भाग १, पृ० ३२१ - ३२५ ) । वाचस्पतिः स्वयमेव स्वकालं निरदिक्षत्-'वस्वङ्कवसुवत्सर' इति (न्याय- सूची- निबन्धोऽसौ अकारि सुधियां मुदे । श्रीवाचस्पतिमिश्रेण वस्वङ्कवसु- वत्सरे – लक्षणावलीग्रन्थान्ते ) । अत्र ८१८ संख्या ग्राह्या । सा च विक्रमाब्दं लक्षयतीत्यैतिहासिकाः, अतः ८४१ ईसवीय-वत्सर आयाति। हरप्रसाद-शास्त्री, दिनेशचन्द्र भट्टाचार्यश्च शककालपक्षमेव निरदिक्षताम् । तदिदं मतं तर्कासह- मिति विस्तरेण उदयवीरशास्त्री प्रतिपादयामास । शास्त्रिपक्ष एवास्माकमिष्टः ( द्र० सा० द० ई० पृ० ३४६ – ३६० ) । वाचस्पतिगृहाश्रमी, तस्य पत्न्या नाम 'भामती'ति । पत्नी-नाम- प्रसिद्ध यथं शारीरकभाष्यटीकायाः स्वकृतायाः नामापि तेन कृतम्-भामतीति । अर्वाचीनैः टीकाकारैरपि स भामती-पतिरितिशब्देनाभिहितः । वाचस्पति-प्रामाण्यम् – लघुमञ्जूषायां तत्त्ववैशारदी उद्धृता ( पृ०४०-४१ सभापतिसंस्क० ) । योगसूत्रटीकाकारा अपि वाचस्पतिमतं प्रमाणत्वेन निर्दि शन्ति, क्वचिच्च ते नामोल्लेखमकृत्वाऽपि मिश्रमतमुद्धरन्तीति दृश्यते । भाष्य- विवरणेऽपि वाचस्पतिमत 'मन्येषां व्याख्यानमित्युक्त्वोधृतम् (१।२४ ) । वाचस्पतेर्नाम नोक्त्वा विज्ञानभिक्षुर्बहुत्र वाचस्पतिमतं खण्डयति (१।१७, १।२१), यद्यपि विचारपाटवदृष्टया प्रायेण मिश्रमतान्येव समीचीनानि प्रतीयन्ते । 'तात्पर्यपरिशुद्धि'-ग्रन्थारम्भ उदयनाचार्यों वाचस्पतिमस्तावीदित्यहो मिश्रस्य प्रभावः! सर्वं'दर्शनसङ्ग्रहान्तर्गत पातञ्जलदर्शनप्रकरणे मिश्रव्याख्यान- मुद्धृतम्' । वाचस्पतिकृता ग्रन्थाः २ – १ - तत्त्ववैशारदी - इयं योगभाष्यस्य टीका। २ – तत्त्वकौमुदी—इयं सांख्यकारिकाग्रन्थस्य टीका । केचित् कथयन्ति यद् इयं व्याख्या न वाचस्पतिकृतेति । दृश्यते खलु प्राणस्वरूपविषये तत्त्व- १. एवं सत्यपि तत्त्ववैशारद्याद्यमङ्गलश्लोकतः प्रतीयते यन्मिश्रण पातञ्जल- संमतमीश्वरतत्त्वं नावबुद्धम् । नात्रेश्वरो जगदुत्पत्तिहेतुरिति । २. न्यायसूत्रोद्धारकृद् वाचस्पतिः खल्वन्यः कश्चित् । धर्मशास्त्रीयग्रन्थकारे- ष्वपि धाचस्पति-नाम श्रयते, स च १५ शताब्दीमध्यकालीयः । ( द्र० कारणेकृत H. Dh. S. Vol. I. Sec. 98 ) ।