( ६४ ) पाठ एव प्राचीनतमः पाठ इति प्राचीनकोशेभ्यः सिध्येत्, तर्हि एवं मन्तव्यं यदत्र विवेकजशब्दो यौगिकः - विवेकाज् जात इत्यर्थकः, न पुन विवेकजेति पारिभाषिकः शब्दः ( द्र० ३।३२, ३।५४ ) । क्वचिच्च भाष्यपाठे जायते सन्देहः- वाक्यमिदं उद्धरणरूपेण प्रयुक्तं स्त्रवाक्यरूपेणैवेति । यथा - २।१६ इत्यत्र – तथा चोक्तं पुरस्ताद् नेत्यादि वाक्यं पठ्यते।कश्चिद् मनुते यद् 'न विशेषेभ्य' इत्यादिकं वाक्यमुद्धरणरूपेणात्र पठितमिति । अस्माकं मते 'तथा चोक' पुरस्ताद्' इति वाक्यं पूर्वान्वयि, न विशेषेभ्य इत्यादि तु भाष्यकारस्योक्तिः । तथैव २।१५ भाष्ये 'तथा चोक्तं नानुपहत्ये' त्यादि वाक्यं दृश्यते । अत्र नानुपहत्येत्यादिवाक्यम् आचार्यान्तरवाक्यं भाष्यकृतोद्धृतमिति केचित् । अस्माभिस्तु तन्न मन्यते, तथा चोक्तमिति पूर्वान्वयीति आस्माकीना दृष्टिः । व्यासभाष्यटीकाकाराः -
- – अथात्र योगभाष्यटीकानां विवरणं प्रस्तूयते ।
टीकाकारेषु वाचस्पतिरेव प्राचीनतमः | वाचस्पतिर्न व्याख्यान्तरं सहमार, यद्यपि तेन भाष्यपाठान्तराणि बहुत्र निर्दिष्टानि इति त्रिज्ञेयम् । तत्त्ववैशारदीकारो वाचस्पतिमिश्रः- महाभागो वाचस्पतिः सर्वदर्शन- व्याख्याकृत् । स च यद्यपि सर्वतन्त्रस्वतन्त्रः, तथा प भगवति शिवे तस्य द्रढीयसी आस्थासीदिति विज्ञायते । भामत्यारम्भे, न्यायकणिकारम्भे च भवं प्रति, तात्पर्यटीकारम्भे पिनाकिनं प्रति, तत्त्ववैशारद्यारम्भे वृषकेतुं प्रति तेन नम- स्कारो विहित इति दृश्यते । विष्णु-गणपति-तिलकस्वामिनः प्रत्यपि तेन प्रणति- विहिंता । ( द्र० म० म० गोपीनाथकविराजकृतो वाचस्पतिविषयको लेखः, S. B. S. समाख्ये पत्रे प्रकाशितः ) । नृगराजकाले' वाचसतिः प्रादुर्बभूव - इति भामतीग्रन्थतो विज्ञायते ( द्र० अन्त्यमङ्गलाचरण लोकौ ) | २|१|३३ ब्रह्मसूत्रभामत्यामपि तेन नृगनरेन्द्रस्य विशिष्टा कृतिरुपनिर्दिष्टा । नृग इति राज्ञो नाम, स च इतिहाससिद्ध इति व्याख्याग्रन्थतो विज्ञायते ( द्र० कल्पतरुपरिमल-टीके ) । कोऽयं नृग इति प्रश्नोऽयं न निर्णीतः । महीपालनामा कश्चिद् राजा 'महीप'शब्देन लक्षितः (तस्मिन् महीपे महनीयकीर्तौौं— अन्त्यमङ्गललोको द्र० ) इति केचित् । विक्रम- शिलामहाविहारसंस्थापको मगधगौडदेशाधिपो धर्मपाल एव नृग इत्यन्ये । १. न्यायवात्तिकभूमिकायां (पृ० १४३-१५१) विन्ध्येश्वरीप्रसाद उक्तवान् यद् दशमशताव्द्यां चौहान वंशे नृगनामको राजाऽसीत्, तत्काले वाचस्पतिबंभूत्रेति । नैतिहासिका मतमिदं पुष्णन्ति ( वेदान्तदर्शनेर इतिहास भाग १, पृ०३२४)