पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६६ ) वैशारदी-तत्त्वकौमुदीग्रन्थयोर्मतभेदः । ग्रन्थान्तरे विषयोऽयं विचारयिष्यते । श्रीपञ्चाननतर्करत्नेन अस्या अपि कौमुदीनाम्नी व्याख्या प्रणीता, सा च वङ्गाक्षरेषु प्रकाशिता। तत्त्व विभाकरनाम्नी व्याख्याऽप्यस्ति । ३-न्यायसूची- निबन्धः— ग्रन्थेऽस्मिन् न्यायसूत्रपाठः सूत्रसंख्या चैतद्वयं सम्यक संकलित- माचार्येण । ४–न्यायवार्त्तिकतात्पर्यटीका- इयं न्यायवार्त्तिकस्य टीका । ५ –न्यायकणिका – इयं मण्डनमिश्रकृत 'विधिविवेक' ग्रन्थस्य टीका। तत्त्व- वैशारद्यां ग्रन्थोऽयमुल्लिखितः (४|१४ ) | ६–तत्त्वबिन्दुः— शब्दतत्त्वं शाब्दबोधं चाधिकृत्य लघुरयं ग्रन्थः प्रणीतः । ७- तत्त्वसमीक्षा – इयं 'ब्रह्म- सिद्धि'ग्रन्थस्य टीका। अस्या अपरं नाम ब्रह्मतत्त्वसमीक्षेति ज्ञायते । नायं ग्रन्थ उपलभ्यते, भामत्यां, तात्पर्यटीकायां ( पृ० ५७ ) चायं ग्रन्थो निर्दिष्टः । ८ – ब्रह्मसिद्धिः – वेदान्तविषयकोऽयं ग्रन्थः । कालनष्टोऽयम् । न्यायकणि- कायां ( पृ० ८० ) ग्रन्थोऽयं स्मृतः । ६ – एषु सर्वेषु ग्रन्थेषु भामतीग्रन्थ एव अन्तिमो रचनादृष्ट्या सर्वातिशायी चेति दृश्यते । मतमिदं समीचीन- मेवेति वाचस्पतिकृतग्रन्थाध्ययनतोऽपि विज्ञायते । अन्येऽपि केचन ग्रन्था युक्तिदीपिकादयो वाचस्पतिरचिता इति केचन । न्यायरत्नग्रन्थस्यापि तेन काचित् टीका निर्मितेति केचित् । एते ग्रन्था भामत्यादिकृता वाचस्पतिनैव प्रणीता न वेति गरीयान् संशयः । वाचस्पतेर्गुरुः खलु त्रिलोचननामा कश्चिद् बुध इति कथ्यते, तात्पर्यटीकायां वाचस्पतिनाप्युक्तम् ‘त्रिलोचनगुरून्नीत' इति ( पृ० १३३ ) | त्रिलोचनः खलु प्रसिद्धो न्यायशास्त्रवेत्ता । तत्त्ववैशारद्याः टीका - पातञ्जलरहस्यनाम्नी काचिद् व्याख्या कृता राघवानन्दसरस्वत्या व्याख्येयं संक्षिप्ता । नेयमुपयोगिनीति प्रतिभाति । अयम- द्वयभगवत्पाद-शिष्य इति अन्तिमपुष्पिकातो ज्ञायते । तत्त्ववैशारद्यां भाष्यपाठभेदनिर्देश:- वाचस्पतिना भाष्यस्य केचन पाठभेदा निर्दिष्टाः, तथाहि- अत्रापि कथंचिदित्यनुषञ्जनीयम्, क्वचित् तु पठ्यत एव ( २ । ३९ ) ; क्वचित् पाठः कार्यविमुक्तिरिति ( २ | २७ ); क्वचित् पाठ ऐकभविक इति ( २ | १३ ); क्वचित् भावना समाधिरिति पाठः ( ३ | २३ ); क्वचित् कर्मेति पाठः ( ३ | १५ ); ये तु नाभिभूयते इति पठन्ति ( ३।१० ); संस्कार- मात्रोपभोगेनेति क्वचित् पाठः ( १ | १६ ); उपग्रह्येति क्वाचित्कः पाठः (४।१४) । प > २ 7 a