पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(96")) ( ७) एकान्तवादः - ३ | १३ भाष्ये 'अपर आह' इत्युक्त्वा परिणामसंबद्धं किमपि मतम् उपदर्शितम् । तच्च एकान्तवादिनां बौद्धानामेव मतमिति वाचस्पति मिश्रः । असत्कार्य समारम्भाभिमानीत्थं कथयतीति विवरणकारः । आहात्र भिक्षुः – “स्वरूपान्यथात्ववादिबौद्धः घर्मिपरिणामे प्रोक्तं दूषणं निराकर्तुमुत्थापयति – अपर आहे”ति । (८) बौद्धमतान्तरम् - ३।१३ भाष्य उक्तम् 'अवस्थापरिणामे कौटस्थ्य- दोषप्रसङ्गः कैश्चिदुक्त' इति । अयं बौद्ध सम्प्रदायगतो मतविशेष इति विज्ञान-भिक्षुः । ( ६-१०) उच्छेदवाद-शाश्वतत्रादौ - ( २ | १५ ) भाष्ये शब्दत इमौ वादौ उदाहृतौ । ( ११ ) निर्ग्रन्थमतम्-४।१० भाष्य उक्तम् – “घटप्रासाद प्रदीपकल्प संकोचविकाशि चित्तं शरीरपरिमाणाकारम् इत्यपरे प्रतिपन्नाः" । इदं निर्ग्रन्थ- (जैन) मतमिति भास्वतीकारः । सांख्यीयमतत्रिशेषोऽयमिति विज्ञानभिक्षुः । नेदं भिक्षुमतं विचारसमिति प्रतिभाति । सांख्यदृष्ट्या भवेन्नाम चित्तं संकोच- विकाशि, तथापि न तत् शरीरपरिमाणाकारम् इष्यते केनापि सांख्याचार्येण । ( १२ ) वैशेपिकमतम् - ३।५३ भाष्ये 'अपरे तु वर्णयन्ति' इत्यादिक वाक्यं वैशेषिकमतं लक्षयतीति वाचस्पतिर्भिक्षुश्च । भाष्यादिमश्लोकस्य प्रक्षिप्तता - भाष्येऽस्मिन् य आदिमः श्लोकः (यस्यत्वेत्यादि) विद्यते स प्रक्षिप्त एव । नायं श्लोको वाचस्पतिना व्याख्यातो, नैत्रास्य प्रतीकोऽपि धृतः । विवरणटी कायामपि नायं श्लोकः स्मृतः । इदं प्रतीयते यदयं श्लोको वाचस्पतेरनन्तरं ग्रन्थादौ केनचित् स्थापितो मङ्गलाचरणसिद्ध यौ । शेषनागपतञ्जलिरेवास्य योगसूत्रस्य प्रणेतेति काल्पनिका प्रसिद्धिर्यदा प्ररूढा जाता, तदैवायं श्लोक इहोपस्थापितः केनापि योगसूत्र- भक्तेन । तदनन्तरञ्च विज्ञानभिक्षुणा श्लोकोऽयं व्याख्यातः । इलोकोऽयं महाभाष्यटीकायां शंकरविरचितायां मङ्गलश्लोकरूपेणास्ते ( द्र० पृ० १२० पुरुषोत्तम देवकृतपरिभाषावृत्तिः, वरेन्द्र रिसर्च-मिउजियम प्रकाशिता ) । टीकेयं पुरुषोत्तम देवकृतमहाभाष्यवृत्तेः (प्राणपणा ) व्याख्या शंकरोऽयं नवद्वीपनिवासीति ( द्र० I. H. Q. Sept. १९४३; सं० व्या ० इ० भाग १, पृ० २८६ ) । योगभाष्यगतानि शास्त्रान्तरवचांसि-योगभाध्ये यानि वचांस्युद्घृतानि, तद्विषय इदं विज्ञेयम् – पञ्चशिखस्य वचनानि भाष्यकृता पञ्चशिखनाम्ना सह नोद्धतानि; वाचस्पतिर्भिक्षुर्वा कथयति यदेतानि वाक्यानि पञ्चशिखप्रोता-